भरणादेव भर्ताऽयं पालनात्पतिरुच्यते
बन्धुश्च सुखबन्धाच्च प्रीतिदानात्प्रियः परः
रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः
शतपुत्रात्परःस्वामी कुलजानां प्रियः सदा
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दीक्षणम्
सर्वाण्येव व्रतादीनि महादानानि यानि च
गुरुसेवाविप्रसेवादेवसेवादिकं च यत्। स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम्।।2.42.
गुरुविप्रेष्टदेवेषु सर्वेभ्यश्च पतिर्गुरुः
गोपीत्रिलक्षकोटीनां गोपानां च तथैव च
रमादिगोपकान्तानामीश्वरी तत्प्रसादतः
इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ सुभक्तितः
अथ सा दक्षिणादेवी ध्वस्ता गोलोकतो मुने
अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम्
विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिः
नारायणश्च भगवान्महालक्ष्मीश्च देहतः
ब्रह्मा ददौ तां यज्ञाय पूर्णार्थं कर्मणां सताम्
तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम् 2.42.
कमलास्यां कोमलाङ्गीं कमलायतलोचनाम्
वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम्
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्
कस्तूरीबिन्दुभिः सार्द्धं चन्दनैश्च सुगन्धिभिः
सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम्
तां दृष्ट्वा रमणीयां च यज्ञो मूर्च्छामवाप ह
दिव्यं वर्षशतं चैव तां गृहीत्वाऽथ निर्जने
गर्भं दधार सा देवी दिव्यं द्वादशवत्सरम्
कर्मणां फलदाता च दक्षिणा कर्मणां सताम्
यज्ञो दक्षिणया सार्द्धं पुत्रेण च फलेन च 2.42.
यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम्
तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः
कृत्वा कर्म च कर्ता तु तूर्णं दद्याच्च दक्षिणाम्