त्रिलक्षकोटयो गोपाः सुदामादय एव च
पलायन्तं च कान्तं वै विज्ञाय परमेश्वरी
अद्यप्रभृति गोलोकं सा चेदायाति गोपिका
इत्येवमुक्त्वा तत्रैव देवदेवीश्वरी रुषा
नालोक्य पुरतः कृष्णं राधा विरहकातरा
हे कृष्ण हे प्राणनाथागच्छ प्राणाधिकप्रिय
स्त्रीगर्वः पतिसौभाग्याद्वर्द्धते च दिने दिने 2.42.
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदा गतिः
धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा
सारात्सारतमः स्वामी बन्धूनां बन्धुवर्द्धनः
भरणादेव भर्ताऽयं पालनात्पतिरुच्यते
बन्धुश्च सुखबन्धाच्च प्रीतिदानात्प्रियः परः
रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः
शतपुत्रात्परःस्वामी कुलजानां प्रियः सदा
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दीक्षणम्
सर्वाण्येव व्रतादीनि महादानानि यानि च
गुरुसेवाविप्रसेवादेवसेवादिकं च यत्। स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम्।।2.42.
गुरुविप्रेष्टदेवेषु सर्वेभ्यश्च पतिर्गुरुः
गोपीत्रिलक्षकोटीनां गोपानां च तथैव च
रमादिगोपकान्तानामीश्वरी तत्प्रसादतः
इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ सुभक्तितः
अथ सा दक्षिणादेवी ध्वस्ता गोलोकतो मुने
अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम्
विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिः
नारायणश्च भगवान्महालक्ष्मीश्च देहतः
ब्रह्मा ददौ तां यज्ञाय पूर्णार्थं कर्मणां सताम्
तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम् 2.42.
कमलास्यां कोमलाङ्गीं कमलायतलोचनाम्
वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम्
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्