सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डला
श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना
भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी
उवास दक्षिणे क्रोडे राधायाः पुरतः पुरा
दृष्ट्वा राधां च पुरतो गोपीनां प्रवरां वराम्
कोपेन कम्पिताङ्गी च कोपनां कोपदर्शनाम्
आगच्छन्तीं च वेगेन विज्ञाय तदनन्तरम् 2.42.
पलायन्तं च तं शान्तं सत्त्वाधारं सुविग्रहम्
विलोक्य सङ्कटं तत्र गोपीनां लक्षकोटयः
रक्ष रक्षेत्युक्तवत्यो हे देवीति पुनः पुनः
त्रिलक्षकोटयो गोपाः सुदामादय एव च
पलायन्तं च कान्तं वै विज्ञाय परमेश्वरी
अद्यप्रभृति गोलोकं सा चेदायाति गोपिका
इत्येवमुक्त्वा तत्रैव देवदेवीश्वरी रुषा
नालोक्य पुरतः कृष्णं राधा विरहकातरा
हे कृष्ण हे प्राणनाथागच्छ प्राणाधिकप्रिय
स्त्रीगर्वः पतिसौभाग्याद्वर्द्धते च दिने दिने 2.42.
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदा गतिः
धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा
सारात्सारतमः स्वामी बन्धूनां बन्धुवर्द्धनः
भरणादेव भर्ताऽयं पालनात्पतिरुच्यते
बन्धुश्च सुखबन्धाच्च प्रीतिदानात्प्रियः परः
रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः
शतपुत्रात्परःस्वामी कुलजानां प्रियः सदा
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दीक्षणम्
सर्वाण्येव व्रतादीनि महादानानि यानि च
गुरुसेवाविप्रसेवादेवसेवादिकं च यत्। स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम्।।2.42.
गुरुविप्रेष्टदेवेषु सर्वेभ्यश्च पतिर्गुरुः
गोपीत्रिलक्षकोटीनां गोपानां च तथैव च
रमादिगोपकान्तानामीश्वरी तत्प्रसादतः