या सुशीलाभिधा गोपी पुराऽऽसीद्राधिकासखी
प्रध्वस्ता सा च तच्छापाद्गोलोकाद्विश्वमागता
सा प्रेयसी रतौ दक्षा प्रशस्ता सर्वकर्मसु
गोप्या बभूवुस्तिस्रो वै स्वधा स्वाहा च दक्षिणा
इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके च संसदि
तदा पितृभ्यः प्रददौ तामेव कमलाननाम्
स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः
नारायण उवाच वक्ष्यामि दक्षिणाख्यानं सावधानं निशामय
गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः अतीव सुन्दरी रामा सुभगा सुदती सती
विद्यावती गुणवती सती रूपवती तथा
सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डला
श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना
भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी
उवास दक्षिणे क्रोडे राधायाः पुरतः पुरा
दृष्ट्वा राधां च पुरतो गोपीनां प्रवरां वराम्
कोपेन कम्पिताङ्गी च कोपनां कोपदर्शनाम्
आगच्छन्तीं च वेगेन विज्ञाय तदनन्तरम् 2.42.
पलायन्तं च तं शान्तं सत्त्वाधारं सुविग्रहम्
विलोक्य सङ्कटं तत्र गोपीनां लक्षकोटयः
रक्ष रक्षेत्युक्तवत्यो हे देवीति पुनः पुनः
त्रिलक्षकोटयो गोपाः सुदामादय एव च
पलायन्तं च कान्तं वै विज्ञाय परमेश्वरी
अद्यप्रभृति गोलोकं सा चेदायाति गोपिका
इत्येवमुक्त्वा तत्रैव देवदेवीश्वरी रुषा
नालोक्य पुरतः कृष्णं राधा विरहकातरा
हे कृष्ण हे प्राणनाथागच्छ प्राणाधिकप्रिय
स्त्रीगर्वः पतिसौभाग्याद्वर्द्धते च दिने दिने 2.42.
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदा गतिः
धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा
सारात्सारतमः स्वामी बन्धूनां बन्धुवर्द्धनः