स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्य्यादहंमतिः
ब्रह्मणो मानसीं कन्यां शश्वत्सुस्थिरयौवनाम्
इति ध्यात्वा घटे रम्ये शालग्रामेऽथवा शुभे
आं श्रीं क्लीं स्वधादेव्यै स्वाहेति च महामनुम्
स्तोत्रं शृणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद
ब्रह्मोवाच मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत्
स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत्
श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः
स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः 2.41.
पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी
बहिर्मन्मनसो गच्छ पितॄणां तुष्टिहेतवे
नित्या नित्यस्वरूपाऽसि गुणरूपाऽसि सुव्रते
ॐ स्वस्ति च नमः स्वाहा स्वधा त्वं दक्षिणा तथा
पुराऽऽसीस्त्वं स्वधा गोपी गोलोके राधिका सखी
ध्वस्ता त्वं राधिकाशापाद्गोलोकाद्विश्वमागता
कृष्णालिंगनपुण्येन भूता मे मानसी सुता
स्वाहा सा सुन्दरी गोपी पुराऽऽसीद्राधिकासखी
कृष्णेन सार्द्धं सुचिरं वसन्ते रासमण्डले
तस्याः शापेन सा ध्वस्ता गोलोकाद्विश्वमागता 2.41.
पवित्ररूपा परमा देवाद्यैर्वन्दिता नृभिः
या सुशीलाभिधा गोपी पुराऽऽसीद्राधिकासखी
प्रध्वस्ता सा च तच्छापाद्गोलोकाद्विश्वमागता
सा प्रेयसी रतौ दक्षा प्रशस्ता सर्वकर्मसु
गोप्या बभूवुस्तिस्रो वै स्वधा स्वाहा च दक्षिणा
इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके च संसदि
तदा पितृभ्यः प्रददौ तामेव कमलाननाम्
स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः
नारायण उवाच वक्ष्यामि दक्षिणाख्यानं सावधानं निशामय
गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः अतीव सुन्दरी रामा सुभगा सुदती सती
विद्यावती गुणवती सती रूपवती तथा