सृष्टेरादौ पितृगणान्ससर्ज जगतां विधिः
सप्त दृष्ट्वा पितृगणान्सिद्धिरूपान्मनोहरान्
स्नानं तर्पणपर्य्यन्तं श्राद्धान्तं देवपूजनम्
नित्यं न कुर्य्याद्यो विप्रस्त्रिसन्ध्यं श्राद्धतर्पणम्
हरिसेवाविहीनश्च श्रीहरेरनिवेद्यभुक्
ब्रह्मा श्राद्धादिकं सृष्ट्वा जगाम पितृहेतवे
सर्वे प्रजग्मुः क्षुधिता विषण्णा ब्रह्मणः सभाम्
ब्रह्मा च मानसीं कन्यां ससृजे तां मनोहराम्
विद्यावतीं गुणवतीमपि रूपवतीं सतीम् 2.41.
विशुद्धां प्रकृतेरंशां सस्मितां वरदां शुभाम्
शतपद्मपदन्यस्तपादपद्मं च बिभ्रतीम्
पितृभ्यस्तां ददौ कन्यां तुष्टेभ्यस्तुष्टिरूपिणीम्
स्वधान्तं मन्त्रमुच्चार्य्य पितृभ्यो देहि चेति च
स्वाहा शस्ता देवदाने पितृदाने स्वधा वरा
पितरो देवता विप्रा मुनयो मानवास्तथा
देवादयश्च सन्तुष्टाः परिपूर्णमनोरथाः
इत्येवं कथितं सर्वं स्वधोपाख्यानमुत्तमम्
नारद उवाच श्रोतुमिच्छामि यत्नेन वद वेदविदां वर
नारायण उवाच सर्वं जानासि वक्ष्ये वै ज्ञातुमिच्छसि वृद्धये ।। 2.41.
शरत्कृष्णत्रयोदश्यां मघायां श्राद्धवासरे
स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्य्यादहंमतिः
ब्रह्मणो मानसीं कन्यां शश्वत्सुस्थिरयौवनाम्
इति ध्यात्वा घटे रम्ये शालग्रामेऽथवा शुभे
आं श्रीं क्लीं स्वधादेव्यै स्वाहेति च महामनुम्
स्तोत्रं शृणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद
ब्रह्मोवाच मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत्
स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत्
श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः
स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः 2.41.
पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी