बभूव गर्भं तस्याश्च हुताशस्यैव तेजसा
ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान्
ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः
स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम् 2.40.
विषहीनो यथा सर्पो वेदहीनो यथा द्विजः
फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः
परितुष्टा द्विजाः सर्वे देवाः संप्रापुराहुतिम्
इत्येवं वर्णितं सर्वं स्वाहोपाख्यानमुत्तमम्
नारद उवाच संपूज्य वह्निस्तुष्टाव येन तां वद मे प्रभो
नारायण उवाच वदामि श्रूयतां ब्रह्मन्सावधानं निशामय
सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा
स्वाहां मन्त्राङ्गभूतां च मन्त्रसिद्धिस्वरूपिणीम्
इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः
ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च 2.40.
वह्निरुवाच मन्त्राणां फलदात्री च धात्री च जगतां सती
सिद्धिस्वरूपा सिद्धा च सिद्धिदा सर्वदा नृणाम्
संसारसाररूपा च घोरसंसारतारिणी
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः
नाङ्गहीनो भवेत्तस्य सर्वकर्मसु शोभनम्
नारायण उवाच पितॄणां वै तृप्तिकरं श्राद्धानां फलवर्द्धनम्
सृष्टेरादौ पितृगणान्ससर्ज जगतां विधिः
सप्त दृष्ट्वा पितृगणान्सिद्धिरूपान्मनोहरान्
स्नानं तर्पणपर्य्यन्तं श्राद्धान्तं देवपूजनम्
नित्यं न कुर्य्याद्यो विप्रस्त्रिसन्ध्यं श्राद्धतर्पणम्
हरिसेवाविहीनश्च श्रीहरेरनिवेद्यभुक्
ब्रह्मा श्राद्धादिकं सृष्ट्वा जगाम पितृहेतवे
सर्वे प्रजग्मुः क्षुधिता विषण्णा ब्रह्मणः सभाम्
ब्रह्मा च मानसीं कन्यां ससृजे तां मनोहराम्
विद्यावतीं गुणवतीमपि रूपवतीं सतीम् 2.41.
विशुद्धां प्रकृतेरंशां सस्मितां वरदां शुभाम्