पद्मास्या पाद्ममित्युक्त्वा पद्मलाभानुसारतः
तपस्तेपे लक्षवर्षमेकपादेन पाद्मजा
अतीव कमनीयं च रूपं दृष्ट्वा च सुन्दरी
विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच सः 2.40.
श्रीकृष्ण उवाच नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च
अधुनाऽग्नेर्दाहिका त्वं भव पत्नी च भाविनि
वह्निस्त्वां भक्तिभावेन सम्पूज्य च गृहेश्वरीम्
इत्युक्त्वाऽन्तर्दधे देवो देवीमाश्वास्य नारद
ध्यानैश्च सामवेदोक्तैर्ध्यात्वा तां जगदम्बिकाम्
तदा दिव्यं वर्षशतं स रेमे रामया सह
बभूव गर्भं तस्याश्च हुताशस्यैव तेजसा
ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान्
ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः
स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम् 2.40.
विषहीनो यथा सर्पो वेदहीनो यथा द्विजः
फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः
परितुष्टा द्विजाः सर्वे देवाः संप्रापुराहुतिम्
इत्येवं वर्णितं सर्वं स्वाहोपाख्यानमुत्तमम्
नारद उवाच संपूज्य वह्निस्तुष्टाव येन तां वद मे प्रभो
नारायण उवाच वदामि श्रूयतां ब्रह्मन्सावधानं निशामय
सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा
स्वाहां मन्त्राङ्गभूतां च मन्त्रसिद्धिस्वरूपिणीम्
इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः
ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च 2.40.
वह्निरुवाच मन्त्राणां फलदात्री च धात्री च जगतां सती
सिद्धिस्वरूपा सिद्धा च सिद्धिदा सर्वदा नृणाम्
संसारसाररूपा च घोरसंसारतारिणी
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः
नाङ्गहीनो भवेत्तस्य सर्वकर्मसु शोभनम्
नारायण उवाच पितॄणां वै तृप्तिकरं श्राद्धानां फलवर्द्धनम्