असद्वंशप्रसूता या सा द्वेष्टि स्वामिनं सदा
पतितं रोगिणं दुष्टं निर्धनं गुणहीनकम् 1.9.
सगुणं निर्गुणं वापि द्वेष्टि या संत्यजेत्पतिम्
कीटैः शुनकतुल्यैश्च भक्षिता सा दिवानिशम्
गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः
ततो मानवजन्मानि लभेच्चेत्पूर्वकर्मणः
देहि नः कान्तदानं च कामपूरं विधेः सुत
कन्यानां वचनं श्रुत्वा दक्षः शंकरसन्निधिम्
दक्षस्तस्याशिषं कृत्वा समुवाच कृपानिधिम्
दक्ष उवाच मत्सुतानां च प्राणानां परमेव प्रियं पतिम्
न चेद्ददासि जामातर्मम जामातरं विधुम्
दक्षस्य वचनं श्रुत्वा तमुवाच कृपानिधिः 1.9.
शिव उवाच नाहं दातुं समर्थश्च चन्द्रं च शरणागतम्
शिवस्य वचनं श्रुत्वा दक्षस्तं शप्तुमुद्यतः
एतस्मिन्नन्तरे कृष्णो वृद्धब्राह्मणरूपधृक्
दत्त्वा शुभाशिषं तौ स ब्रह्मज्योतिः सनातनः
श्रीभगवानुवाच आत्मानं रक्ष दक्षाय देहि चन्द्रं सुरेश्वर
तपस्विनां वरः शान्तस्त्वमेवं वैष्णवाग्रणीः
दक्षः क्रोधी च दुर्द्धर्षस्तेजस्वी ब्रह्मणः सुतः
नारायणवचः श्रुत्वा हसित्वा शङ्करः स्वयम्
शङ्कर उवाच प्राणांश्च न समर्थोऽहं प्रदातुं शरणागतम्
यो ददाति भयेनैव प्रपन्नं शरणागतम् 1.9.
सर्वं त्यक्तुं समर्थोऽहं न स्वधर्मं जगत्प्रभो
यश्च धर्मं सदा रक्षेद्धर्मस्तं परिरक्षति
त्वं सर्वमाता स्रष्टा च हन्ता च परिणामतः
शङ्करस्य वचः श्रुत्वा भगवान्सर्वभाववित्
प्रतस्थावर्द्धचन्द्रश्च निर्व्याधिः शिवशेखरे
यक्ष्मग्रस्तं च तं दृष्ट्वा दक्षस्तुष्टाव माधवम्
कृष्णस्तेभ्यो वरं दत्त्वा जगाम स्वालयं द्विज
चन्द्रस्ताश्च परिप्राप्य विजहार दिवानिशम्