एतासां चरितं जन्म फलं प्राधान्यमेव च
सौतिरुवाच कथां कथितुमारेभे पुराणोक्तां पुरातनीम्
श्रीनारायण उवाच ब्रह्मलोके ब्रह्मसभामगम्यां सुमनोहराम्
गत्वा निवेदनं चक्रुर्मुने त्वाहारहेतुकम् 2.40.
यज्ञरूपो हि भगवान्कलया च बभूव सः
हविर्ददति विप्राश्च भक्त्या च क्षत्रियादयः
देवा विषण्णास्ते सर्वे तत्सभां च पुनर्ययुः
ब्रह्मा श्रुत्वा तु मनसा श्रीकृष्णं शरणं ययौ
प्रकृतिः कलया चैव सर्वशक्तिस्वरूपिणी
ग्रीष्ममध्याह्नमार्त्तण्ड प्रभान्यक्कारकारिणी
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकारिणी
विधिस्तद्वचनं श्रुत्वा सम्भ्रमात्समुवाच ताम्
ब्रह्मोवाच दग्धुं न शक्तस्स्वहुतं हुताशश्च त्वया विना
त्वन्नामोच्चार्य्य मन्त्रान्ते यद्दास्यति हविर्नरः 2.40.
अग्नेः सम्पत्स्वरूपा च श्रीरूपा च गृहेश्वरी
ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह
स्वाहोवाच ब्रह्मंस्तदन्यद्यत्किंचित्स्वप्नवद्भ्रम एव च
विधाता जगतां त्वं च शम्भुर्मृत्युञ्जयः प्रभुः
सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः
ऋषयो मुनयश्चैव पूजिता यं निषेव्य च
पद्मास्या पाद्ममित्युक्त्वा पद्मलाभानुसारतः
तपस्तेपे लक्षवर्षमेकपादेन पाद्मजा
अतीव कमनीयं च रूपं दृष्ट्वा च सुन्दरी
विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच सः 2.40.
श्रीकृष्ण उवाच नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च
अधुनाऽग्नेर्दाहिका त्वं भव पत्नी च भाविनि
वह्निस्त्वां भक्तिभावेन सम्पूज्य च गृहेश्वरीम्
इत्युक्त्वाऽन्तर्दधे देवो देवीमाश्वास्य नारद
ध्यानैश्च सामवेदोक्तैर्ध्यात्वा तां जगदम्बिकाम्
तदा दिव्यं वर्षशतं स रेमे रामया सह