सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी
त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः
स्तनन्धयानां त्वं माता शिशूनां शैशवे यथा
त्यक्तस्तनो मातृहीनः स चेज्जीवति दैवतः
सुप्रसन्नस्वरूपा त्वं मे प्रसन्ना भवाम्बिके
वयं यावत्त्वया हीना बन्धुहीनाश्च भिक्षुकाः
राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि 2.39.
कामं देहि मतिं देहि भोगान्देहि हरिप्रिये
सर्वाधिकारमेवं वै प्रभावं च प्रतापकम्
इत्युक्त्वा तु महेन्द्रश्च सर्वैः सुरगणैः सह
ब्रह्मा च शंकरश्चैव शेषो धर्मश्च केशवः
देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम्
ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद
ययतुस्तौ स्वस्वगृहं ब्रह्मेशानौ च नारद
इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः
सिद्धस्तोत्रं यदि पठेत्सोऽपि कल्पतरुर्नरः
सिद्धिःस्तोत्रं यदि पठेन्मासमेकं च संयतः 2.39.
नारद उवाच तस्य सर्वा पुरःपूजेत्युक्तं पूर्वं त्वया प्रभो
तदेव स्थापितं पुष्पं गजेन्द्रस्यैव मस्तके
मूर्ध्नि च्छिन्ने गणपतेः शनेर्दृष्ट्या पुरा मुने
अधुनोक्तं देवषट्कं संपूज्य च पुरन्दरः
अहो पुराणवक्तॄणां दुर्बोधं वचनं नृणाम्
श्रीनारायण उवाच तदा नास्त्येव तज्जन्म पूजाकाले बभूव सः
सुचिरं दुःखिता देवा बभ्रमुर्ब्रह्मशापतः
नारद उवाच रूपेण च गुणैश्चैव यशसा तेजसा त्विषा
त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां तथा महालक्ष्म्या उपाख्यानं विज्ञातं महदद्भुतम्
अन्यत्किञ्चिदुपाख्यानं निगूढं वद साम्प्रतम् अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम्
श्रीनारायण उवाच श्रुतौ कतिविधं गूढमास्ते ब्रह्मन्सुदुर्लभम्
तेषु यत्सारभूतं च श्रोतुं किंवा त्वमिच्छसि
नारद उवाच पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा