जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह
लक्ष्मीर्माया कामवाणी ततः कमलवासिनी
श्रीं ह्रीं क्लीं ऐं कमलवासिन्यै स्वाहा राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च
मंगलोऽनेन मन्त्रेण सप्तद्वीपवतीपतिः
एते च सिद्धा राजेन्द्रा मन्त्रेणानेन नारद
रत्नेन्द्रव्यूहखचितविमानस्था वरप्रदा
बिभ्रती रत्नमालां च कोटि चन्द्रसमप्रभा 2.39.
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रः कृताञ्जलिः सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च
इन्द्र उवाच कृष्णप्रियायै सारायै पद्मायै च नमो नमः
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः
सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः
कृष्णशोभास्वरू पायै रत्नाढ्यायै नमो नमः
सस्याधिष्ठातृदेव्यै च सस्यलक्ष्म्यै नमो नमः
वैकुण्ठे च महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता
अदितिर्देवमाता त्वं कमला कमलालये 2.39.
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा
क्रोधहिंसावर्जिता च वरदा च शुभानना
यया विना जगत्सर्वं भस्मीभूतमसारकम्
सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी
त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः
स्तनन्धयानां त्वं माता शिशूनां शैशवे यथा
त्यक्तस्तनो मातृहीनः स चेज्जीवति दैवतः
सुप्रसन्नस्वरूपा त्वं मे प्रसन्ना भवाम्बिके
वयं यावत्त्वया हीना बन्धुहीनाश्च भिक्षुकाः
राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि 2.39.
कामं देहि मतिं देहि भोगान्देहि हरिप्रिये
सर्वाधिकारमेवं वै प्रभावं च प्रतापकम्
इत्युक्त्वा तु महेन्द्रश्च सर्वैः सुरगणैः सह