रत्नभूषणभूषाढ्यां शोभितां पीतवाससा
सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम्
सम्पूज्य ब्रह्मवाक्येन चोपहाराणि षोडश
प्रशंस्यानि प्रहृष्टानि दुर्लभानि वराणि च आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम्
शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम्
पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम्
सुगन्धियुक्ततैलं च सुगन्धामलकीजलम्
मलयाचलसंभूतं वृक्षसारं मनोहरम् 2.39.
जगच्चक्षुस्स्वरूपं च ध्वान्तप्रध्वंसकारणम्
नानोपहाररूपं च नानारससमन्वितम्
अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम्
शाल्यक्षतसुपक्वं च शर्करागव्यसंयुतम्
शर्करागव्यपक्वं च सुस्वादु सुमनोहरम्
नानाविधानि रम्याणि पक्वानि च फलानि तु
सुरभिस्तनसम्भूतं सुस्वादु सुमनोहरम्
सुस्वादुरससंयुक्तमिक्षुवृक्षरसोद्भवम्
यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम्
सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम् 2.39.
पार्थिवं वृक्षभेदं च विविधैर्द्रव्यकारकम्
शीतवायुप्रदं चैव दाहे च सुखदं परम्
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
सुवासितं शीतलं च पिपासानाशकारणम्
देहसौन्दर्य्यबीजं च सदा शोभाविवर्द्धनम्
रत्नस्वर्णविकारं च देहसौख्यविवर्द्धनम्
नानाकुसुमसन्दर्भं बहुशोभाप्रदं परम्
शुद्धिदं शुद्धिरूपं च सर्वमङ्गलमङ्गलम्
पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा
रत्नसारैस्संग्रथितं पुष्पचन्दनसंयुतम् 2.39.
यद्यद्द्रव्यमपूर्वं च पृथिव्यामस्ति दुर्लभम्
द्रव्याण्येतानि दत्त्वा वै मूलेन देवपुंगव