नारद उवाच ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रादिकं वद
हरिणा पूजिता पूर्वं ततो ब्रह्मादिभिस्तथा ध्यानेन पूजिता केन विधिना केन वा पुरा
श्रीनारायण उवाच क्षीरोदे संस्थाप्य घटं देवषट्कमपूजयत्
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्
तत्रावाह्य महालक्ष्मीं परमैश्वर्य्यरूपिणीम्
पुरः स्थितेषु मुनिषु ब्राह्मणेषु गुरौ तथा
पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम्
ध्यानं च सामवेदोक्तं यदुक्तं ब्रह्मणे पुरा
सहस्रदलपद्मस्य कर्णिकावासिनीं पराम् 2.39.
स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम्
रत्नभूषणभूषाढ्यां शोभितां पीतवाससा
सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम्
सम्पूज्य ब्रह्मवाक्येन चोपहाराणि षोडश
प्रशंस्यानि प्रहृष्टानि दुर्लभानि वराणि च आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम्
शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम्
पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम्
सुगन्धियुक्ततैलं च सुगन्धामलकीजलम्
मलयाचलसंभूतं वृक्षसारं मनोहरम् 2.39.
जगच्चक्षुस्स्वरूपं च ध्वान्तप्रध्वंसकारणम्
नानोपहाररूपं च नानारससमन्वितम्
अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम्
शाल्यक्षतसुपक्वं च शर्करागव्यसंयुतम्
शर्करागव्यपक्वं च सुस्वादु सुमनोहरम्
नानाविधानि रम्याणि पक्वानि च फलानि तु
सुरभिस्तनसम्भूतं सुस्वादु सुमनोहरम्
सुस्वादुरससंयुक्तमिक्षुवृक्षरसोद्भवम्
यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम्
सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम् 2.39.
पार्थिवं वृक्षभेदं च विविधैर्द्रव्यकारकम्
शीतवायुप्रदं चैव दाहे च सुखदं परम्