मद्भक्तानां च मे निन्दा यत्र यत्र भवेत्सुराः
मद्भक्तिहीनो यो मूढो यो भुङ्क्ते हरिवासरे
मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम्
पापिनां यो गृहं याति शूद्रश्राद्धान्नभोजिनाम्
शूद्राणां शवदाही च भाग्यहीनश्च वाडवः
शूद्राणां सूपकारो यो ब्राह्मणो वृषवाहकः
विप्रो यवनसेवी च देवलः शूद्रयाजकः
विश्वासघाती मित्रघ्नो नरघाती कृतघ्नकः 2.38.
अशुद्धहृदयः कूरो हिंसको निन्दको द्विजः
यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः
तृणं छिनत्ति नखरैस्तैर्वा यो हि लिखेन्महीम्
सूर्य्योदये च द्विर्भोजी दिवाशायी च वाडवः
आचारहीनो यो विप्रो यश्च शूद्रप्रतिग्रही
स्निग्धपादश्च नग्नो वा यः शेते ज्ञानदुर्बलः
शिरस्नातश्च तैलेन योऽन्यदङ्गमुपस्पृशेत्
व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः
यत्र तत्र हरेरर्चा हरेरुत्कीर्त्तनं शुभम् 2.38.
यत्र प्रशंसा कृष्णस्य तद्भक्तस्य पितामह
यत्र शङ्खध्वनिः शङ्खः शिला च तुलसीदलम्
शिवलिङ्गार्चनं यत्र तस्य चोत्कीर्त्तनं शुभम्
विप्राणां सेवनं यत्र तेषां वै भोजनं शुभम्
इत्युक्त्वा च सुरान्सर्वान्रमामाह रमापतिः
इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च
इत्युक्त्वा कमलाकान्तो देवश्चान्तरधान्मुने
मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम्
धन्वन्तरिं च पीयूषमुच्चैःश्रवसमीप्सितम्
वनमालां ददौ सा च क्षीरोदशायिने मुने 2.38.
देवैः स्तुता पूजिता च ब्रह्मणा शङ्करेण च
प्रापुर्देवाः स्वविषयं दैत्यैर्ग्रस्तं भयङ्करैः
इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुत्तमम्