तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः
वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः
स चापश्यत्सुरगणं विपद्ग्रस्तं भयाकुलम्
शोभाशून्यं हतश्रीकं परिवारैरनावृतम्
नारायण उवाच दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्द्धिनीम्
किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम्
जनाश्चासंख्यविश्वस्था मदधीनाश्च सन्ततम्
यो यो रुष्टो हि मद्भक्ते मत्परे हि निरङ्कुशः 2.38.
दुर्वासाः शङ्करांशश्च वैष्णवो मत्परायणः
यत्र शङ्खध्वनिर्नास्ति तुलसी च शिलार्चनम्
मद्भक्तानां च मे निन्दा यत्र यत्र भवेत्सुराः
मद्भक्तिहीनो यो मूढो यो भुङ्क्ते हरिवासरे
मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम्
पापिनां यो गृहं याति शूद्रश्राद्धान्नभोजिनाम्
शूद्राणां शवदाही च भाग्यहीनश्च वाडवः
शूद्राणां सूपकारो यो ब्राह्मणो वृषवाहकः
विप्रो यवनसेवी च देवलः शूद्रयाजकः
विश्वासघाती मित्रघ्नो नरघाती कृतघ्नकः 2.38.
अशुद्धहृदयः कूरो हिंसको निन्दको द्विजः
यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः
तृणं छिनत्ति नखरैस्तैर्वा यो हि लिखेन्महीम्
सूर्य्योदये च द्विर्भोजी दिवाशायी च वाडवः
आचारहीनो यो विप्रो यश्च शूद्रप्रतिग्रही
स्निग्धपादश्च नग्नो वा यः शेते ज्ञानदुर्बलः
शिरस्नातश्च तैलेन योऽन्यदङ्गमुपस्पृशेत्
व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः
यत्र तत्र हरेरर्चा हरेरुत्कीर्त्तनं शुभम् 2.38.
यत्र प्रशंसा कृष्णस्य तद्भक्तस्य पितामह
यत्र शङ्खध्वनिः शङ्खः शिला च तुलसीदलम्
शिवलिङ्गार्चनं यत्र तस्य चोत्कीर्त्तनं शुभम्