शिवेन पूजितं पादपद्मं पुष्पेण येन च
तत्पुष्पं मस्तके यस्य कृष्णपादाब्जतश्च्युतम्
दैवेन वञ्चितस्त्वं च दैवं च बलवत्तरम्
कृष्णं न मन्यते यो हि श्रीनाथं सर्ववन्दितम्
शतयज्ञेन या लब्धा दीक्षितेन त्वया पुरा
अधुना गच्छ वैकुण्ठं मया च गुरुणा सह
इत्येवमुक्त्वा स ब्रह्मा सर्वैः सुरगणैः सह
तत्र गत्वा परं ब्रह्म भगवन्तं सनातनम् 2.38.
ग्रीष्ममध्याह्नमार्त्तण्डशतकोटिसमप्रभम्
चतुर्भुजैः पार्षदैश्च सरस्वत्या स्तुतं नतम्
तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः
वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः
स चापश्यत्सुरगणं विपद्ग्रस्तं भयाकुलम्
शोभाशून्यं हतश्रीकं परिवारैरनावृतम्
नारायण उवाच दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्द्धिनीम्
किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम्
जनाश्चासंख्यविश्वस्था मदधीनाश्च सन्ततम्
यो यो रुष्टो हि मद्भक्ते मत्परे हि निरङ्कुशः 2.38.
दुर्वासाः शङ्करांशश्च वैष्णवो मत्परायणः
यत्र शङ्खध्वनिर्नास्ति तुलसी च शिलार्चनम्
मद्भक्तानां च मे निन्दा यत्र यत्र भवेत्सुराः
मद्भक्तिहीनो यो मूढो यो भुङ्क्ते हरिवासरे
मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम्
पापिनां यो गृहं याति शूद्रश्राद्धान्नभोजिनाम्
शूद्राणां शवदाही च भाग्यहीनश्च वाडवः
शूद्राणां सूपकारो यो ब्राह्मणो वृषवाहकः
विप्रो यवनसेवी च देवलः शूद्रयाजकः
विश्वासघाती मित्रघ्नो नरघाती कृतघ्नकः 2.38.
अशुद्धहृदयः कूरो हिंसको निन्दको द्विजः
यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः