पुष्करे भास्करक्षेत्रे दशलक्षगुणं फलम्
सामान्यब्राह्मणे दानं सममेव फलं लभेत्
विष्णुमन्त्रोपासके च बुधे कोटिगुणं फलम्
यथा दण्डेन सूत्रेण शरावेण जलेन च
तथैव कर्मसूत्रेण फलं धाता ददाति च
स विधाता विधातुश्च पातुः पाता जगत्त्रये
महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् 2.37.
इत्येवमुक्त्वा जीवश्च समालिङ्ग्य सुरेश्वरम्
नारायण उवाच बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह
शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्भवम्
वृत्तान्तं कथयामास सुराचार्यो विधिं विभुम्
ब्रह्मोवाच बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम्
मातामहस्ते दक्षश्च विष्णुभक्तः प्रतापवान्
माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः
जनः पैतृकदोषेण दोषान्मातामहस्य च
सर्वान्तरात्मा भगवान्सर्वदेहेष्ववस्थितः
मनोऽहमिन्द्रियेशश्च ज्ञानरूपो हि शङ्करः
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः 2.38.
आत्मनीशे गते देहात्सर्वे यान्ति ससंभ्रमात्
अहं शिवश्च शेषश्च विष्णुर्धर्मो महान्विराट्
शिवेन पूजितं पादपद्मं पुष्पेण येन च
तत्पुष्पं मस्तके यस्य कृष्णपादाब्जतश्च्युतम्
दैवेन वञ्चितस्त्वं च दैवं च बलवत्तरम्
कृष्णं न मन्यते यो हि श्रीनाथं सर्ववन्दितम्
शतयज्ञेन या लब्धा दीक्षितेन त्वया पुरा
अधुना गच्छ वैकुण्ठं मया च गुरुणा सह
इत्येवमुक्त्वा स ब्रह्मा सर्वैः सुरगणैः सह
तत्र गत्वा परं ब्रह्म भगवन्तं सनातनम् 2.38.
ग्रीष्ममध्याह्नमार्त्तण्डशतकोटिसमप्रभम्
चतुर्भुजैः पार्षदैश्च सरस्वत्या स्तुतं नतम्