समदेशे च वस्तूनां दाने पुण्यं समं वृषन्
समे पात्रे समं पुण्यं वस्तूनां कर्तुरेव च
यथा फलन्ति सस्यानि न्यूनान्यप्यधिकानि च
सामान्यदिवसे विप्रे दानं समफलं भवेत् चातुर्मास्यां पौर्णमास्यामनन्तफलमेव च
ग्रहणे शशिनः कोटिगुणं च फलमेव च
अक्षयायामक्षयं चाप्यसंख्यफलमुच्यते
यथा दाने तथा स्नाने जपे वै पुण्यकर्मसु 2.37.
सामान्यदेशे दानं च विप्रे समफलं भवेत्
गङ्गायां वै कोटिगुणं क्षेत्रे नारायणेऽव्ययम्
यथा च वै कोटिगुणं तथा वै विष्णुमन्दिरे
पुष्करे भास्करक्षेत्रे दशलक्षगुणं फलम्
सामान्यब्राह्मणे दानं सममेव फलं लभेत्
विष्णुमन्त्रोपासके च बुधे कोटिगुणं फलम्
यथा दण्डेन सूत्रेण शरावेण जलेन च
तथैव कर्मसूत्रेण फलं धाता ददाति च
स विधाता विधातुश्च पातुः पाता जगत्त्रये
महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् 2.37.
इत्येवमुक्त्वा जीवश्च समालिङ्ग्य सुरेश्वरम्
नारायण उवाच बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह
शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्भवम्
वृत्तान्तं कथयामास सुराचार्यो विधिं विभुम्
ब्रह्मोवाच बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम्
मातामहस्ते दक्षश्च विष्णुभक्तः प्रतापवान्
माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः
जनः पैतृकदोषेण दोषान्मातामहस्य च
सर्वान्तरात्मा भगवान्सर्वदेहेष्ववस्थितः
मनोऽहमिन्द्रियेशश्च ज्ञानरूपो हि शङ्करः
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः 2.38.
आत्मनीशे गते देहात्सर्वे यान्ति ससंभ्रमात्
अहं शिवश्च शेषश्च विष्णुर्धर्मो महान्विराट्