अश्विनी भरणी चैव कृत्तिका रोहिणी तथा
पुष्याऽऽश्लेषा मघा पूर्वफल्गुन्युत्तरफल्गुनी 1.9.
ज्येष्ठा मूला तथा पूर्वाऽऽषाढा चैवोत्तरा स्मृता
पूर्वा भाद्रोत्तराभाद्रा रेवत्यन्ता विधुप्रियाः
सन्ततं रसभावेन चकार शशिनं वशम्
सर्वा भगिन्यः पितरं कथयामासुरादृताः
दक्षः प्रकुपितश्चन्द्रमशपन्मन्त्रपूर्वकम्
दिने दिने यक्ष्मणा स क्षीयमाणश्च दुःखितः
दृष्ट्वा चन्द्रं शंकरश्च क्लेशितं शरणागतम्
निर्मुक्तं यक्ष्मणा कृत्वा स्वकपोले स्थलं ददौ
तं शिवः शेखरे कृत्वा चाभवच्चन्द्रशेखरः
दक्षकन्याः पतिं मुक्तं दृष्ट्वा च रुरुदुः पुनः 1.9.
उच्चैश्च रुरुदुर्गत्वा निहत्याङ्गं पुनः पुनः
दक्षकन्या ऊचुः सौभाग्यमस्तु नस्तात गतः स्वामी गुणान्वितः
स्थिते चक्षुषि हे तात दृष्टं ध्वान्तमयं जगत्
पतिरेव गतिः स्त्रीणां पतिः प्राणाश्च सम्पदः
पतिर्नारायणः स्त्रीणां व्रतं धर्मः सनातनः
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा
देवार्चनं चानशनं सर्वाणि च तपांसि च
सर्वेषां बान्धवानां च प्रियः पुत्रश्च योषिताम्
असद्वंशप्रसूता या सा द्वेष्टि स्वामिनं सदा
पतितं रोगिणं दुष्टं निर्धनं गुणहीनकम् 1.9.
सगुणं निर्गुणं वापि द्वेष्टि या संत्यजेत्पतिम्
कीटैः शुनकतुल्यैश्च भक्षिता सा दिवानिशम्
गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः
ततो मानवजन्मानि लभेच्चेत्पूर्वकर्मणः
देहि नः कान्तदानं च कामपूरं विधेः सुत
कन्यानां वचनं श्रुत्वा दक्षः शंकरसन्निधिम्
दक्षस्तस्याशिषं कृत्वा समुवाच कृपानिधिम्
दक्ष उवाच मत्सुतानां च प्राणानां परमेव प्रियं पतिम्