वत्सरैर्नरमानैश्च युगानां च चतुष्टयम्
युगे नराणां शक्रायुर्मनोरायुः प्रकीर्त्तितम्
निपातो ब्रह्मणस्तत्र भवेत्प्राकृतिको लयः
चक्षुर्निमेषः सृष्टिश्च पुनरुन्मीलने तथा
यथा पृथिव्या रेणूनामित्यूचे चन्द्रशेखरः
सृष्टिसूत्रस्वरूपं हि चान्यद्वृणु वरं सुर
आत्मनः पूर्वमैश्वर्य्यं वरयामास तत्र वै 2.36.
नारद उवाच किं चकार गृहं गत्वा तन्मे व्याख्यातुमर्हसि
नारायण उवाच वैराग्यं वर्द्धयामास तदा ब्रह्मन्दिने दिने
मुनिस्थानाद्गृहं गत्वा स ददर्शामरावतीम्
विषण्णबान्धवां चैव बन्धुहीनां च कुत्रचित्
शत्रुग्रस्तां च दृष्ट्वा तामगमद्वाक्पतिं प्रति
ध्यायमानं परं ब्रह्म गङ्गातोये स्थितं परम्
साश्रुनेत्रं पुलकितं परमानन्दसंयुतम्
श्रेष्ठं च वन्धुवर्गाणामतिश्रेष्ठं च मानिनाम्
दृष्ट्वा गुरुं जपन्तं च तत्र तस्थौ सुरेश्वरः
प्रणम्य चरणाम्भोजे रुरोदोच्चैर्मुहुर्मुर्हुः 2.37.
पुनर्वरो मया लब्धो ज्ञानिनामपि दुर्लभाम्
शिष्यस्य वचनं श्रुत्वा सतां बुद्धिमतां वरः
बृहस्पतिरुवाच न कातरो हि नीतिज्ञो विपत्तौ स्यात्कदाचन
सम्पत्तिर्वा विपत्तिर्वा नश्वरा स्वप्नरूपिणी
सर्वेषां च भ्रमत्येव शश्वज्जन्मनि जन्मनि
भुङ्क्ते हि स्वकृतं कर्म सर्वत्रापि च भारते
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि
इत्येवमुक्तं वेदे च कृष्णेन परमात्मना
जन्म भोगावशेषे च सर्वेषां कृतकर्मणाम्
कर्मणा ब्रह्मशापं च कर्मणा च शुभाशिषम् 2.37.
कोटिजन्मार्जितं कर्म जीविनामनुगच्छति
कालभेदे देशभेदे पात्रभेदे च कर्मणाम्
वस्तुदाने च वस्तूनां समं पुण्यं समे दिने