पौगण्डे यातनां भुक्त्वा प्राप्नुते यौवनं पुनः
आहारमैथुनार्त्तश्च नानामोहादिवेष्टितः
एवं यावत्समर्थश्च तावदेव हि पूजितः
यदाऽतीव जरायुक्तो जडोऽतिबधिरो भवेत्
तदन्तरेऽनुतापं च कुरुते सन्ततं पुनः
पुनश्च मानवीं योनिं लभामि भारते यदि
इत्येवमादि मनसि कुर्वन्तं तं जडं सुर 2.36.
स पश्येद्यमदूतं च पाशहस्तं च दण्डिनम्
दुर्निवार्य्यमुपायैश्च बलिष्ठं च भयङ्करम्
दृष्टमात्रान्महाभीतो विण्मूत्रं च समुत्सृजेत्
अंगुष्ठमात्रं पुरुषं गृहीत्वा यमकिङ्करः
जीवो गत्वा यमं पश्येत्सर्वधर्मज्ञमेव च
धर्माधर्मविचारज्ञं सर्वज्ञं सर्वतोमुखम्
वह्निशुद्धांशुकाधानं रत्नभूषणभूषितम्
जपन्तं श्रीकृष्णनाम शुद्धस्फाटिकमालया
सगद्गदं साश्रुनेत्रं सर्वत्र समदर्शिनम्
स्वतेजसा प्रज्वलन्तं सुखदृश्यं विचक्षणम् 2.36.
पुण्यात्मनां शान्तरूपं पापिनां च भयङ्करम्
चित्रगुप्तविचारेण येषां यदुचितं फलम्
एवं तेषां गतायाते निवृत्तिर्नास्ति जीविनाम्
इत्येवं कथितं सर्वं वरं प्रार्थय वाञ्छितम्
महेन्द्र उवाच कल्पवृक्ष मुनिश्रेष्ठ देहि मे परमं पदम्
महेन्द्रस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः
दुर्वासा उवाच मुक्तिर्युष्मद्विधानां च न लये प्राकृतेऽपि च
आविर्भावः सृष्टिविधौ तिरोभावो लयेऽपि च
यथा भ्रमति कालश्च तथा विषयिणो धुवम्
पलमेकं भवेदेव यथा विपलषष्टिभिः 2.36.
त्रिंशद्भिश्च मुहूर्त्तैश्च भवेदेव दिवानिशम्
पक्षाभ्यां शुक्लकृष्णाभ्यां मास एव विधीयते
ऋतुत्रयेणायनं च ताभ्यां द्वाभ्यां च वत्सरः