चतुर्थे चिरजीवी स्यात्क्षणानामनुरूपकः
यादृशे च क्षणे जन्म प्रसवस्तादृशे भवेत्
कललं त्वेकरात्रेण प्रवृद्धः स्याद्दिने दिने
मासत्रये मांसपिण्डो हस्तपादादिवर्जितः
भवेत्तु जीवसंचारः षण्मासे सर्वतत्त्ववित्
मातृजग्धान्नपानं च भुङ्क्तेऽमेध्यस्थले स्थितः
एवं च चतुरो मासान्भुक्त्वा परमयातनाम् 2.36.
दिग्देशकालाव्युत्पन्नो विस्मृतो विष्णुमायया
परायत्तोऽप्यक्षमश्च मशकादिनि वारणे
स्तनान्धोऽप्यसमर्थश्च याञ्चां कर्तुमभीप्सिताम्
पौगण्डे यातनां भुक्त्वा प्राप्नुते यौवनं पुनः
आहारमैथुनार्त्तश्च नानामोहादिवेष्टितः
एवं यावत्समर्थश्च तावदेव हि पूजितः
यदाऽतीव जरायुक्तो जडोऽतिबधिरो भवेत्
तदन्तरेऽनुतापं च कुरुते सन्ततं पुनः
पुनश्च मानवीं योनिं लभामि भारते यदि
इत्येवमादि मनसि कुर्वन्तं तं जडं सुर 2.36.
स पश्येद्यमदूतं च पाशहस्तं च दण्डिनम्
दुर्निवार्य्यमुपायैश्च बलिष्ठं च भयङ्करम्
दृष्टमात्रान्महाभीतो विण्मूत्रं च समुत्सृजेत्
अंगुष्ठमात्रं पुरुषं गृहीत्वा यमकिङ्करः
जीवो गत्वा यमं पश्येत्सर्वधर्मज्ञमेव च
धर्माधर्मविचारज्ञं सर्वज्ञं सर्वतोमुखम्
वह्निशुद्धांशुकाधानं रत्नभूषणभूषितम्
जपन्तं श्रीकृष्णनाम शुद्धस्फाटिकमालया
सगद्गदं साश्रुनेत्रं सर्वत्र समदर्शिनम्
स्वतेजसा प्रज्वलन्तं सुखदृश्यं विचक्षणम् 2.36.
पुण्यात्मनां शान्तरूपं पापिनां च भयङ्करम्
चित्रगुप्तविचारेण येषां यदुचितं फलम्
एवं तेषां गतायाते निवृत्तिर्नास्ति जीविनाम्