वाणीरूपां च पद्मां च भद्रां कृष्णप्रियात्मिकाम्
तत्प्रसादाद्भवेज्ज्ञानी ज्ञानानन्दं तदा भजेत्
शिवं शिवस्वरूपं च शिवदं शिवकारणम्
सुखदं मोक्षदं चैव दातारं सर्वसम्पदाम्
इन्द्रत्वं च मनुत्वं च दातुं शक्तं च लीलया
जन्मत्रयं तमाराध्य चाशुतोषप्रसादतः
वरदस्य वरेणैव हरिभक्तिं लभेद्ध्रुवम्
निर्म्मलज्ञानदीपेन प्रदीप्तेन च तत्त्ववित् 2.36.
दयानिधेः प्रसादेन निर्मलज्ञानमालभेत् ११! यत्र देहे लभेन्मन्त्रं तद्देहावधि भारते
तत्पाञ्चभौतिकं त्यक्त्वा बिभृयाद्दिव्यरूपकम्
परमानन्दसंयुक्तो मोहादिषु विवर्जितः
पुनश्च न पिबेत्क्षीरं धृत्वा मातृस्तनं परम्
स्वधर्मिणां च भिक्षूणां पुनर्जन्म न विद्यते
अयं निरूपितो धात्रा स्वधर्मस्तीर्थसेविनाम्
व्रतोपवासरत इत्युक्तो वै विष्णुसेविनाम्
समा बुद्धिर्यस्य शश्वत्स संन्यासीति कीर्तितः
नित्यं प्रवासी नैकत्र स्यात्संन्यासीति कीर्त्तितः 2.36.
किन्तु किंचिन्न याचेत स संन्यासीति कीर्त्तितः
ध्यायेन्नारायणं शश्वत्स संन्यासीति कीर्त्तितः
सर्वं ब्रह्ममयं पश्येत्स संन्यासीति कीर्त्तितः
क्रोधाहङ्काररहितः स संन्यासीति कीर्त्तितः
न याचते भक्षणार्थी स संन्यासीति कीर्त्तितः
दारवीमपि योषां च न स्पृशेद्यः स भिक्षुकः
विपर्य्यये विनाशश्च जन्मयाम्यं भयं भवेत्
सुरसूकरयोनौ वा गर्भे दुःखं समं सुर
गर्भे स्मरन्ति सर्वे ते कर्म्म जन्म शतोद्भवम् स्वदेहं पाति यत्नेन सुरो वा कीट एव वा
योनेरभ्यन्तरे शुक्रे पतिते पुरुषस्य च 2.36.
रक्ताधिके मातृसमश्चेतरे पितुराकृतिः
रविभौमगुरूणां च वारे चेत्तद्भवेत्सुतः
प्रथमप्रहरे जन्म यस्य सोऽल्पायुरेव च