स्मरणं कीर्त्तनं विष्णोरर्चनं पादसेवनम्
चरणोदकपानं च तन्मंत्रजपनं परम्
इदं मृत्युञ्जयज्ञानं दत्तं मृत्युञ्जयेन मे
स जन्मदाता स गुरुः स च बन्धुः सतां परः
दर्शयेदन्यमार्गं च विना श्रीकृष्णसेवनम्
सन्ततं जगतां कृष्णनाम मङ्गलकारणम्
तेभ्योऽप्यपैति कालश्च मृत्युस्स्याद्रोग एव च
कृष्णमन्त्रोपासकश्च ब्राह्मणः श्वपचोऽपि वा 2.36.
ब्रह्मणा पूजितः सोऽपि मधुपर्कादिना च यः
ज्ञानसारं तपःसारं ब्रह्मसारं परं शिवम्
ब्रह्मादिस्तम्बपर्य्यन्तं सर्वं मिथ्यैव केवलम्
अतीव सुखदं सारं भुक्तिदं मुक्तिदं परम्
योगिनामपि सिद्धानां यतीनां च तपस्विनाम्
भस्मसाच्च भवेत्पापं यदुपस्पर्शमात्रतः
ततो रोगा हि वेपन्ते पापानि च भयानि च
तावन्निबद्धः संसारे कारागारे विधेर्जनः
कृतकर्मौघभोगाख्यनिगडच्छेदकारणम्
गोलोकमार्गसोपानं निस्तारे बीजकारणम् 2.36.
सारं च सर्वतपसां योवानां साधनं तथा
दानानां तीर्थशौचानां यज्ञादीनां पुरन्दर
पुंसां लक्षं पितॄणां च शतं मातामहस्य च
सहोदरं कलत्रं च वक्तुं शिष्यं च किङ्करम्
स्वात्मानं च सतीर्थ्यं च गुरुपत्नीं गुरोः सुतम्
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः
अनेकजन्मपर्य्यन्तं दीक्षाहीनो भवेन्नरः
सप्तजन्मसु देवानां कृत्वा सेवां स्वकर्मतः
जन्मत्रयं भास्करं च सेवित्वा मानवः शुचिः
जन्मत्रयं तं निषेव्य निर्विघ्नश्च भवेन्नरः 2.36.
तदा ज्ञानप्रदीपेन समालोच्य महामतिः
प्रकृतिं विष्णुमायां च दुर्गां दुर्गतिनाशिनीम्