शास्त्रे च द्विविधं मार्गं निर्दिष्टं मुनिपुङ्गव
चरन्ति जीविनश्चादौ प्रवृत्तौ दुःखवर्त्मनि
आपातमधुरे लोभात्क्लेशे च सुखमानिनः
अनेकजन्मपर्य्यन्तं कृत्वा च भ्रमणं मुदा
ततः कृष्णानुग्रहाच्च सत्सङ्गं लभते जनः
साधुः सत्त्वप्रदीपेन मुक्तिमार्गं प्रदर्शयेत्
अनेकजन्मयोगेन तपसाऽनशनेन च
इदं श्रुतं गुरोर्वक्त्रात्प्रसङ्गावसरेण च 2.36.
अधुना विधिना दत्तो विपत्तौ ज्ञानसागरः
ज्ञानसिन्धो दीनबन्धो मह्यं दीनाय साम्प्रतम्
इन्द्रस्य वचनं श्रुत्वा प्रहस्य ज्ञानिनां गुरुः
दुर्वासा उवाच आपाततो दुःखबीजं परिणामसुखावहम्
स्वगर्भयातनानाशपीडाखण्डनकारणम्
कर्मवृक्षाङ्कुरच्छेदकारणं सर्वतारकम्
दानेन तपसा वाऽपि व्रतेनानशनादिना
काम्यानां कर्मणां चैव मूलं संछिद्य यत्नतः
यत्कर्म सात्त्विकं कुर्य्यादसंकल्पितमेव च
सांसारिकाणामेतत्तु निर्वाणं मोचकं विदुः 2.36.
सेवां कुर्वन्ति ते नित्यं विधायोत्तमदेहकम्
हरिसेवादिरूपां च मुक्तिमिच्छन्ति वैष्णवाः
स्मरणं कीर्त्तनं विष्णोरर्चनं पादसेवनम्
चरणोदकपानं च तन्मंत्रजपनं परम्
इदं मृत्युञ्जयज्ञानं दत्तं मृत्युञ्जयेन मे
स जन्मदाता स गुरुः स च बन्धुः सतां परः
दर्शयेदन्यमार्गं च विना श्रीकृष्णसेवनम्
सन्ततं जगतां कृष्णनाम मङ्गलकारणम्
तेभ्योऽप्यपैति कालश्च मृत्युस्स्याद्रोग एव च
कृष्णमन्त्रोपासकश्च ब्राह्मणः श्वपचोऽपि वा 2.36.
ब्रह्मणा पूजितः सोऽपि मधुपर्कादिना च यः
ज्ञानसारं तपःसारं ब्रह्मसारं परं शिवम्