तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति
पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्नमेव च
शिवलिङ्गप्रदत्तान्नं यदन्नं शूद्रयाजिनाम्
कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम्
शूद्रापतिद्विजान्नं च वृषवाहद्विजान्नकम्
अगम्यगामिनां चैव द्विजानामन्नमेव च
मिथ्यासाक्ष्यप्रदानां च ब्राह्मणानां तथैव च
श्वपचो विष्णुसेवी च वंशानां कोटिमुद्धरेत्
अज्ञानाद्यदि गृह्णाति विष्णोर्निर्माल्यमेव च 2.36.
ज्ञात्वा भक्त्या च गृह्णाति विष्णोर्नैवेद्यमेव च
यस्मात्संस्थापितं पुष्पं गर्वाद्वै हस्तिमस्तके
नारायणस्य भक्तोऽहं न बिभेमीश्वरं विधिम्
किं करिष्यति ते तातः कश्यपश्च प्रजापतिः
इति श्रुत्वा महेन्द्रश्च धृत्वा तच्चरणद्वयम्
इन्द्र उवाच हृता त्वया चेत्सम्पत्तिः कियज्ज्ञानं च देहि मे
ऐश्वर्य्यं विपदां बीजं प्रच्छन्नज्ञानकारणम्
जन्ममृत्युजरारोगशोकदुःखांकुरं परम्
सम्पन्मत्तः समूढश्च सुरामत्तः सचेतनः 2.36.
सम्पन्मदे प्रमत्तश्च विषयान्धश्च विह्वलः
द्विविधो विषयान्धश्च राजसस्तामसः स्मृतः
शास्त्रे च द्विविधं मार्गं निर्दिष्टं मुनिपुङ्गव
चरन्ति जीविनश्चादौ प्रवृत्तौ दुःखवर्त्मनि
आपातमधुरे लोभात्क्लेशे च सुखमानिनः
अनेकजन्मपर्य्यन्तं कृत्वा च भ्रमणं मुदा
ततः कृष्णानुग्रहाच्च सत्सङ्गं लभते जनः
साधुः सत्त्वप्रदीपेन मुक्तिमार्गं प्रदर्शयेत्
अनेकजन्मयोगेन तपसाऽनशनेन च
इदं श्रुतं गुरोर्वक्त्रात्प्रसङ्गावसरेण च 2.36.
अधुना विधिना दत्तो विपत्तौ ज्ञानसागरः
ज्ञानसिन्धो दीनबन्धो मह्यं दीनाय साम्प्रतम्