सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे 2.36.
नारद उवाच केन दोषेण वा ब्रह्मन्ब्रह्मिष्ठं ब्रह्मवित्पुरा
को वा तयोश्च संवादो ह्यभवत्तद्वद प्रभो
नारायण उवाच क्रीडां चकार रहसि रम्भया सह कामुकः
कृत्वा क्रीडां तया सार्द्धं कामुक्या हृतचेतनः
कैलासशिखरं यान्तं वैकुण्ठादृषिपुङ्गवम्
ग्रीष्ममध्याह्नमार्त्तण्डसहस्रप्रभमीश्वरम्
शुक्लयज्ञोपवीतं च चीरं दण्डं कमण्डलुम्
समन्वितं शिष्यवर्गैर्वेदवेदाङ्गपारगैः 2.36.
शिष्यवर्गं स भक्त्या वै तुष्टाव च मुदान्वितः
विष्णुदत्तं पारिजातपुष्पं च सुमनोहरम्
शक्रः पुष्पं गृहीत्वा च प्रमत्तो राजसम्पदा
हस्ती तत्स्पर्शमात्रेण रूपेण च गुणेन च
त्यक्त्वा शक्रं गजेन्द्रश्चाप्यगच्छद्घोरकाननम्
तत्पुष्पं त्यक्तवन्तं च दृष्ट्वा शक्रं मुनीश्वरः
दुर्वासा उवाच मद्दत्तपुष्पं गर्वेण त्यक्तवान्हस्तिमस्तके
विष्णोर्निवेदितं पुष्पं नैवेद्यं वा फलं जलम्
भ्रष्टश्रीर्भ्रष्टबुद्धिश्च भ्रष्टज्ञानो भवेन्नरः
प्राप्तिमात्रेण यो भुङ्क्ते भक्त्या विष्णुनिवेदितम् 2.36.
विष्णुनैवेद्यभोजी यो नित्यं तु प्रणमेद्धरिम्
तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति
पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्नमेव च
शिवलिङ्गप्रदत्तान्नं यदन्नं शूद्रयाजिनाम्
कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम्
शूद्रापतिद्विजान्नं च वृषवाहद्विजान्नकम्
अगम्यगामिनां चैव द्विजानामन्नमेव च
मिथ्यासाक्ष्यप्रदानां च ब्राह्मणानां तथैव च
श्वपचो विष्णुसेवी च वंशानां कोटिमुद्धरेत्
अज्ञानाद्यदि गृह्णाति विष्णोर्निर्माल्यमेव च 2.36.
ज्ञात्वा भक्त्या च गृह्णाति विष्णोर्नैवेद्यमेव च