वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च
विष्णुना पूजिता सा च क्षीरोदे भारते मुने
ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवेत्
शुक्लाष्टम्यां भाद्रपदे पूजा वै ब्रह्मणा कृता
चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे
वर्षान्ते पौषसंक्रांत्यां मेध्यामावाह्य चाङ्गणे 2.35.
राज्ञा संपूजिता सा वै मङ्गलेनैव मङ्गला
ध्रुवेणौत्तानपादेन शक्रेण बलिना तथा
प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना
एवं सर्वत्र सर्वैश्च वन्दिता पूजिता सदा
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे लक्ष्म्युपाख्याने लक्ष्मीस्वरूपपूजादिवर्णनं नाम पञ्चत्रिंशोऽध्यायः
नारद उवाच वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी
कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका
पुरा केन स्तुताऽऽदौ सा तन्मे व्याख्यातुमर्हसि
नारायण उवाच बभूव देवसंघश्च मर्त्यलोकश्च नारद
लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता
तदा शोकाद्ययुर्देवा दुःखिता ब्रह्मणः सभाम्
वैकुण्ठे शरणा पन्ना देवा नारायणे परे
तदा लक्ष्मीश्च कलया पुरा नारायणाज्ञया
तदा मथित्वा क्षीरोदं देवा दैत्यगणैः सह
सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे 2.36.
नारद उवाच केन दोषेण वा ब्रह्मन्ब्रह्मिष्ठं ब्रह्मवित्पुरा
को वा तयोश्च संवादो ह्यभवत्तद्वद प्रभो
नारायण उवाच क्रीडां चकार रहसि रम्भया सह कामुकः
कृत्वा क्रीडां तया सार्द्धं कामुक्या हृतचेतनः
कैलासशिखरं यान्तं वैकुण्ठादृषिपुङ्गवम्
ग्रीष्ममध्याह्नमार्त्तण्डसहस्रप्रभमीश्वरम्
शुक्लयज्ञोपवीतं च चीरं दण्डं कमण्डलुम्
समन्वितं शिष्यवर्गैर्वेदवेदाङ्गपारगैः 2.36.
शिष्यवर्गं स भक्त्या वै तुष्टाव च मुदान्वितः