अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डला
श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा
शरन्मध्याह्नपद्मानां शोभाशोभितलोचना
समा रूपेण वर्णेन तेजसा वयसा त्विषा
स्मितेन वीक्षणेनैव वचसा गमनेन च
तद्वामांशा महालक्ष्मीर्दक्षिणांशा च राधिका 2.35.
महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम्
दक्षिणांशो वै द्विभुजो वामांशश्च चतुर्भुजः
लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययाऽनिशम्
द्विभुजो राधिकाकान्तो लक्ष्मीकान्तश्चतुर्भुजः
चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह
महालक्ष्मीश्च योगेन नानारूपा बभूव सा
शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता
स्वर्गे च स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी
गृहलक्ष्मीर्गृहेष्वेव गृहिणी च कलांशया
गवां प्रसूः सा सुरभिर्दक्षिणा यज्ञकामिनी 2.35.
शोभारूपा च चन्द्रे सा सूर्य्यमण्डलमण्डिता
नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च
प्रतिमासु च देवानां मङ्गलेषु घटेषु च
मणींद्रेषु च हारेषु क्षीरं वै चन्दनेषु च
वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च
विष्णुना पूजिता सा च क्षीरोदे भारते मुने
ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवेत्
शुक्लाष्टम्यां भाद्रपदे पूजा वै ब्रह्मणा कृता
चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे
वर्षान्ते पौषसंक्रांत्यां मेध्यामावाह्य चाङ्गणे 2.35.
राज्ञा संपूजिता सा वै मङ्गलेनैव मङ्गला
ध्रुवेणौत्तानपादेन शक्रेण बलिना तथा
प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना
एवं सर्वत्र सर्वैश्च वन्दिता पूजिता सदा