तामित्युवाच सन्तुष्टस्त्वरोदीच्चापि नारद
यम उवाच अन्ते यास्यसि गोलोके श्रीकृष्णभवनं शुभे
गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु
ज्येष्ठे शुक्लचतुर्दश्यां सावित्र्याश्च व्रतं शुभम्
द्व्यष्टवर्षव्रतं चेदं प्रत्यब्दं पक्षमेव च
प्रतिमङ्गलवारे च देवीं मङ्गलचण्डिकाम्
तथा चाषाढसंक्रान्त्यां मनसा सर्वसिद्धिदाम् 2.34.
उपोष्य शुक्लाष्टम्यां च प्रतिमासे वरप्रदाम्
प्रकृतिं जगदम्बां च पतिपुत्रवतीं सतीम्
या नारी पूजयेद्भक्त्या धनसन्तानहेतवे
इत्युक्त्वा तां धर्मराजो जगाम निजमन्दिरम्
सावित्री सत्यवन्तं च वृत्तान्तं च यथाक्रमम्
सावित्रीजनकः पुत्रान्स प्रापद्वै क्रमेण च
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते
सवितुश्चाधिदेवी या मन्त्राधिष्ठातृदेवता
इत्येवं कथितं वत्स सावित्र्याख्यानमुत्तमम्
नारद उवाच सावित्रीयमसंवादे श्रुतं सुविमलं यशः
तद्गुणोत्कीर्त्तनं सत्यं मंगलानां च मङ्गलम्
केनादौ पूजिता साऽपि किम्भूता केन वा पुरा
नारायण उवाच देवी वामांशसंभूता चासीत्सा रासमण्डले
अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डला
श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा
शरन्मध्याह्नपद्मानां शोभाशोभितलोचना
समा रूपेण वर्णेन तेजसा वयसा त्विषा
स्मितेन वीक्षणेनैव वचसा गमनेन च
तद्वामांशा महालक्ष्मीर्दक्षिणांशा च राधिका 2.35.
महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम्
दक्षिणांशो वै द्विभुजो वामांशश्च चतुर्भुजः
लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययाऽनिशम्
द्विभुजो राधिकाकान्तो लक्ष्मीकान्तश्चतुर्भुजः