श्रीकृष्णांशश्च तद्बाहौ देवाधीशो गणेश्वरः
गोप्यश्चापि च तस्यां च सर्वा वै देवयोषितः
सावित्री च सरस्वत्यां वेदशास्त्राणि यानि च
गोलोकस्थस्य गोपाश्च विलीनास्तस्य लोमसु
जठराग्नौ विलीनश्च जलं तद्रसनाग्रतः
सारात्सारतरा भक्तिरसपीयूषपायिनः
यस्यैव लोमकूपेषु विश्वानि निखिलानि च
चक्षुरुन्मीलने सृष्टिर्यस्यैव परमात्मनः 2.34.
ब्रह्मणश्च शताब्देन सृष्टिस्तत्र लयः पुनः
यथा भूरजसां चैव संख्यानं च निशामय
उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया
यथा श्रुतं तातवक्त्रात्तथोक्तं च यथागमम्
तत्प्रधाना हरेर्भक्तिर्मुक्तेरपि गरीयसी
सिद्धत्वममरत्वं च ब्रह्मत्वं चावहेलया
धारणं दिव्यरूपस्य विदुर्निर्वाणमोक्षदम्
भक्तिमुक्त्योरयं भेदो निषेके लक्षणं शृणु
तत्खण्डनं च शुभदं परं श्रीकृष्णसेवनम् 2.34.
विघ्नघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम्
तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः
रुरोद चरणे धृत्वा सद्विच्छेदोऽतिदुःखदः
तामित्युवाच सन्तुष्टस्त्वरोदीच्चापि नारद
यम उवाच अन्ते यास्यसि गोलोके श्रीकृष्णभवनं शुभे
गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु
ज्येष्ठे शुक्लचतुर्दश्यां सावित्र्याश्च व्रतं शुभम्
द्व्यष्टवर्षव्रतं चेदं प्रत्यब्दं पक्षमेव च
प्रतिमङ्गलवारे च देवीं मङ्गलचण्डिकाम्
तथा चाषाढसंक्रान्त्यां मनसा सर्वसिद्धिदाम् 2.34.
उपोष्य शुक्लाष्टम्यां च प्रतिमासे वरप्रदाम्
प्रकृतिं जगदम्बां च पतिपुत्रवतीं सतीम्
या नारी पूजयेद्भक्त्या धनसन्तानहेतवे