तपनश्च प्रतपति यद्भयात्सन्ततं सति
यदाज्ञया दहेद्वह्निर्जलमेव सुशीतलम्
भ्रमन्ति राशिचक्राणि ग्रहा वै यद्भयेन च
भयात्फलानि पक्वानि निष्फलास्तरवो भयात्
तथा स्थले जलस्थाश्च न जीवन्ति यदाज्ञया
कालश्च कलयेत्सर्वं भ्रमत्येव यदाज्ञया
ज्वलदग्नौ पतन्तं च गभीरे च जलार्णवे
नानाशस्त्रास्त्रविद्धं च रणेषु विषमेषु च 2.34.
शयानं तन्त्रमन्त्रैश्च काले कालो हरेद्भयात्
कूर्मोऽनन्तं स च क्षोणीं समुद्रान्सप्तपर्वतान्
यतः सर्वाणि भूतानि लीयन्तेऽन्ते च तत्र वै
अष्टाविंशच्छक्रपाते ब्रह्मणस्स्यादहर्निशम्
युगे नराणां शक्रायुरेवं संख्याविदो विदुः
ऋतुभिः षड्भिरेवाब्दं शताब्दं ब्रह्मणो वयः
चक्षुर्निमीलने तस्य लयं प्राकृतिकं विदुः
लीना धातरि धाता च श्रीकृष्णे नाभिपङ्कजे
विलीना वामपार्श्वे च कृष्णस्य परमात्मनः
शिवाधारे शिवे लीना ज्ञानानन्दे सनातने 2.34.
तस्य ज्ञाने विलीनश्च बभूवाथ क्षणं हरेः
सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता
श्रीकृष्णांशश्च तद्बाहौ देवाधीशो गणेश्वरः
गोप्यश्चापि च तस्यां च सर्वा वै देवयोषितः
सावित्री च सरस्वत्यां वेदशास्त्राणि यानि च
गोलोकस्थस्य गोपाश्च विलीनास्तस्य लोमसु
जठराग्नौ विलीनश्च जलं तद्रसनाग्रतः
सारात्सारतरा भक्तिरसपीयूषपायिनः
यस्यैव लोमकूपेषु विश्वानि निखिलानि च
चक्षुरुन्मीलने सृष्टिर्यस्यैव परमात्मनः 2.34.
ब्रह्मणश्च शताब्देन सृष्टिस्तत्र लयः पुनः
यथा भूरजसां चैव संख्यानं च निशामय