इन्द्रश्च द्वादशादित्या उपेन्द्राद्याः सुरा मुने
इन्द्रपुत्रो जयन्तश्च ब्रह्मञ्शच्यामजायत ।। । आदित्यस्य सवर्णायां कन्यायां विश्वकर्मणः।।1.9.
शनैश्चरयमौ पुत्रौ कालिन्दी कन्यका तथा
शौनक उवाच वसुन्धरायां बलवांस्तन्मे व्याख्यातुमर्हसि
सौतिरुवाच विधाय सुन्दरीवेषमक्षता प्रौढयौवना
मलये निर्जने रम्ये चारुचन्दनपल्लवे
तं सुशीलं शयानं च शान्तं सस्मितमीप्सितम्
सुरम्यां मालतीमालां ददौ तस्मै वरानना
उपेन्द्रस्तन्मनो ज्ञात्वा कामिनीं कामपीडिताम्
तदङ्गसङ्गसंसक्ता मूर्छां प्राप सती तदा
तां विलग्नां च सुश्रोणीं सुखसम्भोगमूर्छिताम्
क्षणं वक्षसि कृत्वा तां तदोष्ठं च चुचुम्ब ह 1.9.
उर्वशी पथि गच्छन्ती बोधयामास तां मुने
वीर्य्यसंवरणं कर्तुं सा चाशक्ता च दुर्बला
तेन प्रवालवर्णश्च कुमारः समपद्यत
मङ्गलस्य प्रिया मेधा तस्य घण्टेश्वरो महान्
दितेर्हिरण्यकशिपुहिरण्याक्षौ महाबलौ
निर्ऋतिः सिंहिका सा च तेन राहुश्च नैर्ऋतः
हिरण्यकशिपोः पुत्रः प्रह्रादो वैष्णवाग्रणीः
बलेः पुत्रो महायोगी ज्ञानी शङ्करकिंकरः
अनन्तं वासुकिं चैव कालीयं च धनञ्जयम्
महापद्मं च शंकुं च शंखं संवरणं तथा 1.9.
गोक्षं गोकार्मुकं चैव विरूपादींश्च शौनक
कन्यका मनसा देवी कमलांशसमुद्भवा
यत्पतिश्च जरत्कारुर्नारायणकुलोद्भवः
एतेषां नाममात्रेण नास्ति नागभयं नृणाम्
वैनतेयारुणौ पुत्रौ विष्णुतुल्यपराक्रमौ
गावश्च महिषाश्चैव सुरभिप्रवरा इमे
दानवाश्च दनोर्वंशा अन्यास्सामान्यजातयः
नामानि चन्द्रपत्नीनां सावधानं निशामय