कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम्
सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च
सरस्वती च यत्नेन नालं यद्गुणवर्णने
सनन्दः कपिलः सूर्य्यो ये चान्ये ब्रह्मणः सुताः
न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा
ध्यायन्ति यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः
कश्चित्किंचिद्विजानाति तद्गुणोत्कीर्त्तनं महत्
तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना 2.34.
तत्रैव कथितं किंचिद्यद्गुणोत्कीर्त्तनं पुनः
धर्मस्तत्कथयामास पुष्करे भास्कराय च
पूर्वं स्वविषयं चाहं न गृह्णामि प्रयत्नतः
तदा मां कथयामास पिता तद्गुणकीर्त्तनम्
तद्गुणं स न जानाति तदन्यस्य च का कथा
सर्वान्तरात्मा भगवान्सर्वकारणकारणम्
नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः
निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः
स्वयं पुमांश्च प्रकृतिः स्वयं च प्रकृतेः परः
अतीव कमनीयं च सुन्दरं सुमनोहरम् 2.34.
कन्दर्पकोटिलावण्यलीलाधाम मनोहरम्
शरत्पार्वणकोटीन्दुशोभासंशोभिताननम्
सस्मितं शोभितं शश्वदमूल्याऽऽपीतवाससा
सुखदृश्यं च शान्तं च राधाकान्तमनन्तकम्
रासमण्डलमध्यस्थं रत्नसिंहासनस्थितम्
कौस्तुभेन मणीन्द्रेण सुन्दरं वक्षसोज्ज्वलम्
चारुचम्पकमालाब्जमालतीमाल्यमण्डितम्
ध्यायन्ति चैवम्भूतं वै भक्ता भक्तिपरिप्लुताः
करोति लेखनं कर्मानुरूपं सर्वदेहिनाम्
विष्णुः पाता च सर्वेषां यद्भयात्पाति सन्ततम् 2.34.
शिवो मृत्युञ्जयश्चैव ज्ञानिनां च गुरोर्गुरुः
परमानन्द युक्तश्च भक्तिवैराग्यसंयुतः