शतमानवमानं च गभीरं ध्वान्तसंयुतम्
नानाचर्मकषायोदैः परिपूर्णं धनुःशतम्
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम्
अन्तरा ऽग्निशिखानां च ज्वालाव्यात्तमुखं सदा
ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव यत्
पातमात्राद्यत्र पापी मूर्छितो व्यथितो भवेत्
धूमान्धकारयुक्तं च धूमान्धैः पापिभिर्युतम्
पातमात्राद्यत्र पापी नागैस्संवेष्टितो भवेत् 2.33.
षडशीतिश्च कुण्डानि मयोक्तानि निशामय
सावित्र्युवाच त्वत्तः सर्वं श्रुतं देव नावशिष्टोऽधुना मम
किंचित्कथय मे धर्मं श्रीकृष्णगुणकीर्त्तगम्
कारणं मुक्तिकार्याणां सर्वाशुभनिवारणम्
मुक्तयः कतिधा सन्ति किं वा तासां च लक्षणम्
तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता
सर्वदानं ह्यनशनं तीर्थस्नानं व्रतं तपः
पितुः शतगुणा माता गौरवेणातिरिच्यते
यम उवाच अधुना हरिभक्तिस्ते वत्से भवतु मद्वरात्
श्रोतुमिच्छसि कल्याणि श्रीकृष्णगुणकीर्त्तनम्
शेषो वक्त्रसहस्रेण नहि यद्वक्तु मीश्वरः 2.34.
धाता चतुर्णां वेदानां विधाता जगतामपि
कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम्
सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च
सरस्वती च यत्नेन नालं यद्गुणवर्णने
सनन्दः कपिलः सूर्य्यो ये चान्ये ब्रह्मणः सुताः
न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा
ध्यायन्ति यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः
कश्चित्किंचिद्विजानाति तद्गुणोत्कीर्त्तनं महत्
तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना 2.34.
तत्रैव कथितं किंचिद्यद्गुणोत्कीर्त्तनं पुनः
धर्मस्तत्कथयामास पुष्करे भास्कराय च