भ्रमितं कालचक्रेण सन्ततं च भयानकम्
लक्षमानवमानं च गभीरमतिविस्तृतम्
कुत्रचित्तप्तलौहादिकुण्डं ताम्रादिकं तथा
पापिनां च प्रधानैश्च महापातकिभिर्युतम्
ताडितैर्मम दूतैश्च दण्डैश्च मुसलैस्तथा
घूर्णमानं पतद्भिश्च मूर्च्छितैश्च मुहुर्मुहुः
यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि
सुचिरं पतिताश्चैव भोगदेहविवर्जिताः 2.33.
कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः
निश्वासबन्धाः सुचिरं कुण्डानामन्तरे तथा
दण्डेन मुसलेनैव मम दूतैश्च ताडिताः
अवटः कूपभेदश्च यत्रोदं च तदाकृति
व्याप्तं महापापिभिश्च दग्धगात्रैश्च सन्ततम्
यत्तोयस्पर्शमात्रेण सर्व व्याधिश्च पापिनाम्
सर्वे रुद्धाः पापिनश्च व्यथन्ते यत्र सन्ततम्
तप्तपांसुभिराकीर्णं ज्वलद्भिस्तु सुदग्धकैः
पततां पापिनां यत्र भवेदेव प्रकम्पनम्
क्रोशमाने च कुण्डे वै विदुस्तत्पाशवेष्टनम् 2.33.
पातमात्रेण पापी च शूलेन ग्रथितो भवेत्
अतीव हिमतोये च क्रोशार्द्धं च प्रकम्पनम्
धनुर्विंशतिमानं च तदुल्काभिश्च संकुलम्
नानाप्रकारक्रिमिभिः संयुक्तं च भयानकैः
तद्भक्ष्यैः पापिभिर्युक्तं न पश्यद्भिः परस्परम् ध्वान्तेन चक्षुषा चान्धैरन्धकूपं प्रकीर्तितम्
नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः
दण्डेन ताडिता यत्र मम दूतैश्च पापिनः
निबद्धाश्च महाजालैर्यथा मीनाश्च पापिनः
पततां पापिनां कुण्डे देहाश्चूर्णीभवन्ति च
गभीरं ध्वान्तयुक्तं च धनुर्विंशतिमानकम् 2.33.
दलिताः पापिनो यत्र मद्दूतैर्मुसलैः सदा
पातमात्रे यत्र पापी शुष्ककण्ठौष्ठतालुकः