पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां परम्
गभीरं ध्वान्तसंयुक्तं रक्तकीटसमन्वितम्
धनुश्शतप्रमाणं च क्षुराकारास्त्रसंकुलम्
सूचीवाश्यास्त्रसंयुक्तं पापिरक्तौघपूरितम्
गोधाह्वजन्तुभेदस्य मुखाकृति भयानकम्
महापातकिना चैव महाक्लेशकरं परम्
कुण्डं नरमुखाकारं धनुष्षोडशमानकम्
गजेन्द्राणां समूहेन व्याप्तं कुण्डाकृति स्थलम् 2.33.
तत्कीटभक्षितानां च दीनशब्दकृतां सदा
धनुस्त्रिंशत्प्रमाणं च कुण्डं वै गोमुखाकृति
भ्रमितं कालचक्रेण सन्ततं च भयानकम्
लक्षमानवमानं च गभीरमतिविस्तृतम्
कुत्रचित्तप्तलौहादिकुण्डं ताम्रादिकं तथा
पापिनां च प्रधानैश्च महापातकिभिर्युतम्
ताडितैर्मम दूतैश्च दण्डैश्च मुसलैस्तथा
घूर्णमानं पतद्भिश्च मूर्च्छितैश्च मुहुर्मुहुः
यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि
सुचिरं पतिताश्चैव भोगदेहविवर्जिताः 2.33.
कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः
निश्वासबन्धाः सुचिरं कुण्डानामन्तरे तथा
दण्डेन मुसलेनैव मम दूतैश्च ताडिताः
अवटः कूपभेदश्च यत्रोदं च तदाकृति
व्याप्तं महापापिभिश्च दग्धगात्रैश्च सन्ततम्
यत्तोयस्पर्शमात्रेण सर्व व्याधिश्च पापिनाम्
सर्वे रुद्धाः पापिनश्च व्यथन्ते यत्र सन्ततम्
तप्तपांसुभिराकीर्णं ज्वलद्भिस्तु सुदग्धकैः
पततां पापिनां यत्र भवेदेव प्रकम्पनम्
क्रोशमाने च कुण्डे वै विदुस्तत्पाशवेष्टनम् 2.33.
पातमात्रेण पापी च शूलेन ग्रथितो भवेत्
अतीव हिमतोये च क्रोशार्द्धं च प्रकम्पनम्