महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः
कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः
ज्वालाकलापैस्तेजोभिनिर्मितं क्रोशमानकम्
क्रोशमानं गभीरं च तप्तभस्मभिरन्वितम्
तप्तपाषाणलोष्टानां समूहैः परिपूरितम्
क्रोशमानं ध्वान्तमयं गभीरमतिदारुणैः
अप्यूर्मियुक्ततोयं च प्रतप्तक्षारसंयुतम्
द्विगव्यूतिप्रमाणं च गभीरं ध्वान्तसंयुतम् 2.33.
चलद्भिः क्रन्दमानैश्च न पश्यद्भिः परस्परम्
असिपत्रवनस्यैवाप्युच्चैस्ताल तरोरधः
पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां परम्
गभीरं ध्वान्तसंयुक्तं रक्तकीटसमन्वितम्
धनुश्शतप्रमाणं च क्षुराकारास्त्रसंकुलम्
सूचीवाश्यास्त्रसंयुक्तं पापिरक्तौघपूरितम्
गोधाह्वजन्तुभेदस्य मुखाकृति भयानकम्
महापातकिना चैव महाक्लेशकरं परम्
कुण्डं नरमुखाकारं धनुष्षोडशमानकम्
गजेन्द्राणां समूहेन व्याप्तं कुण्डाकृति स्थलम् 2.33.
तत्कीटभक्षितानां च दीनशब्दकृतां सदा
धनुस्त्रिंशत्प्रमाणं च कुण्डं वै गोमुखाकृति
भ्रमितं कालचक्रेण सन्ततं च भयानकम्
लक्षमानवमानं च गभीरमतिविस्तृतम्
कुत्रचित्तप्तलौहादिकुण्डं ताम्रादिकं तथा
पापिनां च प्रधानैश्च महापातकिभिर्युतम्
ताडितैर्मम दूतैश्च दण्डैश्च मुसलैस्तथा
घूर्णमानं पतद्भिश्च मूर्च्छितैश्च मुहुर्मुहुः
यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि
सुचिरं पतिताश्चैव भोगदेहविवर्जिताः 2.33.
कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः
निश्वासबन्धाः सुचिरं कुण्डानामन्तरे तथा