ताडितैर्मम दूतैश्च शुष्ककण्ठौष्ठतालकैः
तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति रुदद्भिः क्रोशमानं च मम दूतैश्च ताडितैः
अतिदुर्गन्धिसंयुक्तं क्रोशार्द्धं पूयसंयुतम्
द्विगव्यूति प्रमाणं च हिमतोयप्रपूरितम् ४९' संकुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः
कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः
हस्तपादादिभिर्बद्धैः क्षत्रैः क्षतजलौहितैः
वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम्
कुण्डत्रयं शरादीनां तैरेव परिपूरितम् 2.33.
तप्तपङ्कोदकैः पूर्णं सध्वान्तं गोलकुण्डकम्
वाप्यर्द्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः
विण्मूत्रश्लेष्मभक्ष्यैश्च संयुक्तं शतकोटिभिः
सञ्चालवाजयोः कुण्डं ताभ्यां च परिपूरितम्
धनुःशतं वज्रयुक्तं पापिभिः सङ्कुलं सदा
वापीद्विगुणयानं च तप्तप्रस्तरनिर्मितम्
क्षुरधारोपमैस्तीक्ष्णैः पाषाणे र्निर्मितं परम्
दुर्गन्धिलालापूर्णं च तद्भक्ष्यैः पापिभिर्युतम्
तप्ततोयेऽञ्जनाकारैः परिपूर्णं धनुश्शतम्
पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् 2.33.
कुण्डं कुलालचक्राभं घूर्ण्यमानं च सन्ततम्
अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम्
महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः
कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः
ज्वालाकलापैस्तेजोभिनिर्मितं क्रोशमानकम्
क्रोशमानं गभीरं च तप्तभस्मभिरन्वितम्
तप्तपाषाणलोष्टानां समूहैः परिपूरितम्
क्रोशमानं ध्वान्तमयं गभीरमतिदारुणैः
अप्यूर्मियुक्ततोयं च प्रतप्तक्षारसंयुतम्
द्विगव्यूतिप्रमाणं च गभीरं ध्वान्तसंयुतम् 2.33.
चलद्भिः क्रन्दमानैश्च न पश्यद्भिः परस्परम्
असिपत्रवनस्यैवाप्युच्चैस्ताल तरोरधः