गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम्
श्लैष्मपूर्णं क्रोशमितं वेष्टितं चेष्टितैः सदा
क्रोशार्द्धं गरपूर्णं च गरभोजिभिरन्वितम्
ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः
नेत्रयोर्मलपूर्णं च क्रोशार्द्धं कीटसंयुतम्
वसारसेन पूर्णं च क्रोशतुर्य्यं सुदुस्सहम्
शुक्रपूर्णं क्रोशतुर्य्यं शुक्रकीटैश्च भक्षितैः
दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम्
पूर्णं नेत्राश्रुभिर्नृणां वाप्यर्द्धं पापिभिर्युतम् 2.33.
नृणां गात्रमलैः पूर्णं तद्भक्ष्यैः पापिभिर्युतम्
कर्णविट्परिपूर्णं च तद्भक्ष्यैः पापिभिर्युतम्
मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम्
परिपूर्णं स्निग्धमांसैर्मम दूतैश्च ताडितैः
कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः
वापीतुर्य्यप्रमाणं च नखादिकचतुष्टयम्
! प्रतप्तताम्रकुंडं च ताम्रपर्य्युन्मुखान्वितम्
प्रत्येकं प्रतिमाश्लिष्टै रुदद्भिः पापिभिर्युतम्
प्रतप्तलोहधारं च ज्वलदङ्गारसंयुतम्
प्रत्येकं सर्वसंश्लिष्टैः शश्वद्विचलितैर्भिया 2.33.
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम्
धर्मकुण्डं तप्तसुराकुण्डं वाप्यर्द्धमेव च
अधः शाल्मलिवृक्षस्य तीक्ष्णकण्टककुण्डकम्
धनुर्माने कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम्
प्रत्येकं कंटकैर्विद्धं महापातकिभिर्युतम्
जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः प्रचलद्भिर्यथा तप्ततैले जीविभिरेव च
विषौघैस्तक्षकादीनां पूर्णं च क्रोशमानकम्
प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम्
काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतताडितैः
शस्त्रकुण्डं ध्वान्तयुक्तं क्रोशमानं भयानकम् 2.33.
शस्त्रतल्पस्वरूपं च क्रोशतुर्य्यप्रमाणकम्