यथा सुप्रज्वलद्वह्नौ काष्ठानि च तृणानि च
कामश्च कामिनं याति लोभ क्रोधौ ततः सति
कालः शुभाशुभं कर्म्म हर्षो भोगस्तथैव च
शृणु देहस्य विवृतिं कथयामि यथागमम्
देहिनां देहबीजं च स्रष्टुः सृष्टिविधौ परम्
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह
बिभर्ति सूक्ष्मदेहं च तद्रूपं भोगहेतवे 2.32.
जलेन नष्टो देहो वा प्रहारे सुचिरं कृते
तप्तद्रवे तप्तलौहे तप्तपाषाण एव च
न च दग्धो न भग्नश्च भुंक्ते संतापमेव च कुण्डानां लक्षणं सर्वं निबोध कथयामि ते
यम उवाच अतीव निम्नं पाषाणभेदैश्च खचितं सति
न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया
ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम्
महच्छब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम्
प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम्
प्रकुर्वता काकुशब्दं प्रहारैर्वर्णितेन च
तत्तक्षारोदकैः पूर्णं नक्रैश्च परिवेष्टितम्
त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः
ताडितैर्मम दूतैश्चाप्यनाहारैरुपद्रवैः ।। 2.33.
तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च संकुलम्
गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम्
श्लैष्मपूर्णं क्रोशमितं वेष्टितं चेष्टितैः सदा
क्रोशार्द्धं गरपूर्णं च गरभोजिभिरन्वितम्
ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः
नेत्रयोर्मलपूर्णं च क्रोशार्द्धं कीटसंयुतम्
वसारसेन पूर्णं च क्रोशतुर्य्यं सुदुस्सहम्
शुक्रपूर्णं क्रोशतुर्य्यं शुक्रकीटैश्च भक्षितैः
दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम्
पूर्णं नेत्राश्रुभिर्नृणां वाप्यर्द्धं पापिभिर्युतम् 2.33.
नृणां गात्रमलैः पूर्णं तद्भक्ष्यैः पापिभिर्युतम्