ततो नानाविधा वृक्षजातयश्च ततो नरः
ततो भवेत्स्वर्णकारः सुवर्णस्य वणिक्तथा
विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः
स याति नागवेष्टं च नागैर्वेष्टित एव च
ततो भवेत्स गणको वैद्यो वै सप्तजन्मसु
प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते 2.31.
सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः
सावित्र्युवाच नानापुराणेतिहासपाञ्चरात्रप्रदर्शकः
सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम्
यशःप्रदं धर्मदं च सर्वमंगलमंगलम्
कुण्डानि च न पश्यन्ति तत्र नैव पतंति च
किमाकाराणि कुण्डानि कानि तेषां मतानि च
स्वदेहे भस्मसाद्भूते यांति लोकान्तरं नराः
सुचिरं क्लेशभोगेन कथं देहो न नश्यति
नारायण उवाच कथां कथितुमारेभे गुरुं नत्वा च नारद
यम उवाच पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च
अन्येषु सर्वशास्त्रेषु वेदांगेषु च सुव्रते 2.32.
जन्ममृत्युजरारोगशोकसन्तापतारणम्
कारणं सर्वसिद्धीनां नरकार्णवतारणम्
गोलोकमार्गसोपानमविनाशिपदप्रदम्
कुण्डानि यमदूतं च यमं च यमकिङ्करान्
हरिव्रतं ये कुर्वंति गृहिणः कर्मभोगिनः
प्रणमंति हरिं नित्यं हर्य्यर्चां पूजयन्ति च
त्रिसन्ध्यपूता विप्राश्च शुद्धाचारसमन्विताः
ते स्वर्गभोगिनोऽन्ये च शुद्धा देवान्यकिंकराः निवृत्तिं न हि लिप्सन्ति कृष्णसेवां विना नराः
स्वधर्म्मनिरताश्चापि स्वधर्मविरतास्तथा
भीताः कृष्णोपासकाच्च वैनतेयादिवोरगाः 2.32.
यास्यसीति च सर्वत्र हरिभक्ताश्रमं विना
करोति नखराञ्जल्या चित्रगुप्तश्च भीतवत्
विलंघ्य ब्रह्मलोकं च गोलोके गच्छतां सताम्