मिथ्यावादी देवगृहे देवलः सप्तजन्मसु
ततो भवन्ति मूकास्ते बधिराश्च त्रिजन्मसु
मित्रद्रोही च न कुलः कृतघ्नश्चापि गण्डकः
मिथ्यासाक्ष्यप्रदश्चैव भल्लूकः सप्तजन्मसु '
नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः
व्रतोपवासहीनश्च सद्वाक्यपरिनिंदकः 2.31.
जलजंतुर्भवेत्सोऽपि शतजन्मक्रमेण च
यो वा धनस्यापहारं देवाब्रह्मणयोश्चरेत्
स्वयं याति च धूमांधं धूमध्वांतसमन्वितम्
ततो मूषकजातिश्च शतजन्मानि भारते
ततो नानाविधा वृक्षजातयश्च ततो नरः
ततो भवेत्स्वर्णकारः सुवर्णस्य वणिक्तथा
विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः
स याति नागवेष्टं च नागैर्वेष्टित एव च
ततो भवेत्स गणको वैद्यो वै सप्तजन्मसु
प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते 2.31.
सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः
सावित्र्युवाच नानापुराणेतिहासपाञ्चरात्रप्रदर्शकः
सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम्
यशःप्रदं धर्मदं च सर्वमंगलमंगलम्
कुण्डानि च न पश्यन्ति तत्र नैव पतंति च
किमाकाराणि कुण्डानि कानि तेषां मतानि च
स्वदेहे भस्मसाद्भूते यांति लोकान्तरं नराः
सुचिरं क्लेशभोगेन कथं देहो न नश्यति
नारायण उवाच कथां कथितुमारेभे गुरुं नत्वा च नारद
यम उवाच पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च
अन्येषु सर्वशास्त्रेषु वेदांगेषु च सुव्रते 2.32.
जन्ममृत्युजरारोगशोकसन्तापतारणम्
कारणं सर्वसिद्धीनां नरकार्णवतारणम्
गोलोकमार्गसोपानमविनाशिपदप्रदम्