वाक्प्रदत्तां हि कन्यां च यश्चान्यस्मै ददाति च
दत्तापहारी यः साध्वि पाशवेष्टं शताब्दकम्
न पूजयेद्यो हि भक्त्या शिवलिङ्गं च पार्थिवम्
स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु
करोति दण्डं यो विप्रे यद्भयात्कम्पते द्विजः
प्रकोपवदना कोपात्स्वामिनं या च पश्यति
उल्कां ददाति वक्त्रे च सततं यमकिङ्करः 2.31.
ततो भवेन्मानवी च विधवा सप्तजन्मसु
या ब्राह्मणी शूद्रभोग्या साऽन्धकूपं प्रयाति च
निवसेदतिसन्तप्ता यमदूतेन ताडिता
काकी जन्मसहस्राणि शतजन्मानि सूकरी
पारावती सप्तजनौ वानरी सप्तजन्मसु
ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली
वेश्या वसेद्वेधने च युग्मी वै दण्डताडने
स्वैरिणी दलने चैव धृष्टा वै शोषणे तथा
विण्मूत्रभक्षणं तत्र यावन्मन्वन्तरं सति
ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्त्रियामपि क्षत्रियः 2.31.
स्ववर्णपरदारी च कषं याति तया सह
ततो विप्रो भवेच्छुद्धश्चैवं च क्षत्रियादयः
क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वाऽपि पतिव्रते
शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः
तत्रैव यातनां भुंक्ते यावदिन्द्राश्चतुर्दश
करे धृत्वा च तुलसीं प्रतिज्ञां यो न पालयेत्
गङ्गातोयं करे धृत्वा प्रतिज्ञां यो न पालयेत्
दत्त्वा च दक्षिणं हस्तं प्रतिज्ञां यो न पालयेत्
मित्रद्रोही कृतघ्नश्च यो हि विश्वासघातकः 2.31.
एते तत्र वसन्त्येव यावदिन्द्राश्चतुर्दश
चण्डालस्तुलसीस्पर्शी सप्तजन्मस्वतः शुचिः
शिलास्पर्शी विट्कृमिश्च सप्तजन्मसु सुन्दरि
दक्षहस्तप्रधाता च सर्पस्स्यात्सप्तजन्मसु