ब्राह्मणश्च सुरापीती विड्भोजी वृषलीपतिः
गुरुपत्नीं राजपत्नीं सपत्नीमातरं प्रसूम्
सोदरभ्रातृजायां च मातुलानीं पितृप्रसूम्
शिष्यां च शिष्यपत्नीं च भगिनेयस्य कामिनीम्
एतास्वेकामनेकां वा यो व्रजेन्मानवोऽधमः
अकर्म्मार्होऽपि सोऽस्पृश्यो लोके वेदेऽति निन्दितः
करोत्यशुद्धां सन्ध्यां च सन्ध्यां वा न करोति यः
वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम्
प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् 2.30.
तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे
पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने
एष्वन्यत्र च यो दानं प्रतिगृह्णाति कामतः
शूद्रातिरिक्तयाजी यो ग्रामयाजी च कीर्त्तितः
शूद्रपाकोपजीवी यः सूपकार इति स्मृतः
उक्तं पूर्वप्रकरणे लक्षणं वृषलीपतेः
कुंडान्यन्यानि ते यान्ति निबोध कथयामि ते
यम उवाच शुभकर्म्म स्वर्गबीजं नरकं च कुकर्म्मतः
पुंश्चल्यन्नं च यो भुंक्ते वेश्यान्नं च पतिव्रते
शतवर्षं कालसूत्रे स्थित्वा शूद्रो भवेद्ध्रुवम्
पतिव्रता चैकपत्नी द्वितीये कुलटा स्मृता
वेश्या च पञ्चमे षष्ठे युग्मी च परिकीर्तिता
यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि
शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम्
युग्मीगामी दशगुणं वसेत्तत्र न संशयः
तदा हि सर्वगामी चेत्येवमाह पितामहः
तित्तिरिः कुलटागामी धृष्टागामी च वायसः 2.31.
युग्मीगामी सूकरश्च सप्तजन्मसु भारते
यो भुंक्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूय्यर्योः
ततो भवेन्मानवस्स्यादुदरव्याधिसंयुतः