सर्वं गङ्गासमं तोयं सर्वे व्याससमा द्विजाः
आतिदेशिकहत्याया वास्तवश्च चतुर्गुणः
आतिदेशिकहत्याया भेदश्च कथितः सति
स्वस्त्री गम्या च सर्वेषामिति वेदे निरूपिता
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि
शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी
शूद्रश्चेद्ब्राह्मणीं गच्छेद्ब्रह्महत्याशतं लभेत्
यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः
विष्ठासमश्च तत्पिंडो मूत्रतुल्यं च तर्पणम् 2.30.
कोटिजन्मार्जितं पुण्यं सन्ध्यार्चातपसाऽर्जितम्
ब्राह्मणश्च सुरापीती विड्भोजी वृषलीपतिः
गुरुपत्नीं राजपत्नीं सपत्नीमातरं प्रसूम्
सोदरभ्रातृजायां च मातुलानीं पितृप्रसूम्
शिष्यां च शिष्यपत्नीं च भगिनेयस्य कामिनीम्
एतास्वेकामनेकां वा यो व्रजेन्मानवोऽधमः
अकर्म्मार्होऽपि सोऽस्पृश्यो लोके वेदेऽति निन्दितः
करोत्यशुद्धां सन्ध्यां च सन्ध्यां वा न करोति यः
वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम्
प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् 2.30.
तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे
पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने
एष्वन्यत्र च यो दानं प्रतिगृह्णाति कामतः
शूद्रातिरिक्तयाजी यो ग्रामयाजी च कीर्त्तितः
शूद्रपाकोपजीवी यः सूपकार इति स्मृतः
उक्तं पूर्वप्रकरणे लक्षणं वृषलीपतेः
कुंडान्यन्यानि ते यान्ति निबोध कथयामि ते
यम उवाच शुभकर्म्म स्वर्गबीजं नरकं च कुकर्म्मतः
पुंश्चल्यन्नं च यो भुंक्ते वेश्यान्नं च पतिव्रते
शतवर्षं कालसूत्रे स्थित्वा शूद्रो भवेद्ध्रुवम्