सर्वदेवीस्वरूपां च सर्वाद्यां सर्ववन्दिताम्
कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम्
पञ्चपर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः
अम्बुवीच्यांबुखनने जले शौचादिकं च ये
गुरुं च मातरं तातं साध्वीं भार्य्यां सुतं सुताम्
विवाहो यस्य न भवेन्न पश्यति सुतं च यः
हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत्
आहारं कुर्वतीं गां च पिबन्तीं यो निवारयेत्
दण्डैर्गास्ताडयेन्मूढो यो विप्रो वृषवाहकः
ददाति गोभ्य उच्छिष्टं योजयेद्वृषवाहकम् ।। 2.30.
वृषलीपतिं याजयेद्यो भुंक्तेऽन्नं तस्य यो नरः
पादं ददाति वह्नौ च गाश्च पादेन ताडयेत्
यो भुंक्ते स्निग्धपादेन शेते स्निग्धांघ्रिरेव च
अवीरान्नं च यो भुंक्ते योनिजीवी च वै द्विजः
पितॄंश्च पर्वकाले च तिथिकाले च देवताम्
स्वभर्तरि च कृष्णे च भेदबुद्धिं करोति या
गोमार्गखननं कृत्वा वपते सस्यमेव च
राजके दैवके यत्नाद्गोस्वामी गां न पातयेत्
प्राणिनं लंघयेद्यो हि देवार्चायां रतं जलम् ।।2.30.
शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति
न ददात्याशिषं कोपात्प्रणताय च यो द्विजः
गोहत्या ब्रह्महत्या च कथिता चातिदेशिकी
सावित्र्युवाच न्यूनाधिके च को भेदस्तन्मां व्याख्यातुमर्हसि
यम उवाच कुत्रातिदेशिकः श्रेष्ठो वास्तवो न्यून एव च
कुत्र वा समता साध्वि तयोर्वेदप्रमाणतः
पुरा परिचिते विप्रे विद्यामन्त्रप्रदातरि
पितुः शतगुणा माता मातुः शतगुणस्तथा
गुरुतो गुरुपत्नी च गौरवे च गरीयसी ।। 2.30.
विप्रः शिवसमो यश्च विष्णुतुल्यपराक्रमः