मन्त्रोपदेशमात्रेण नरा मुक्ताश्च भारते
कोटिजन्मार्जितात्पापान्मन्त्रग्रहणमात्रतः
पुत्रान्दारांश्च शिष्यांश्च सेवकान्बान्धवांस्तथा
यो दर्शयत्यसन्मार्गं शिष्यैर्विश्वासितो गुरुः 1.8.
स किंगुरुः स किंतातः स किंस्वामी स किंसुतः
शप्तो निरपराधेन त्वयाऽहं चतुरानन
कवचस्तोत्रपूजाभिः सहितस्ते मनुर्मनोः
अपूज्यो भव विश्वेषु यावत्कल्पत्रयं पितः
अधुना यज्ञभागस्ते व्रतादिष्वपि सुव्रत
इत्युक्त्वा नारदस्तत्र विरराम पितुः पुरः
उपबर्हेण गन्धर्वो नारदस्तेन हेतुना
ततः पुनर्नारदश्च स बभूव महानृषिः
सौतिरुवाच सृष्टिं प्रचक्रुस्ते सर्वे विप्रेन्द्र नारदं विना
मरीचेर्मनसो जातः कश्यपश्च प्रजापतिः
प्रचेतसोऽपि मनसो गौतमश्च बभूव ह
मनोश्च शतरूपायां तिस्रः कन्याः प्रजज्ञिरे
प्रियव्रतोत्तानपादौ द्वौ च पुत्रौ मनोहरौ
आकूतिं रुचये प्रादाद्दक्षायाथ प्रसूतिकाम्
प्रसूत्यां दक्षबीजेन षष्टिकन्याः प्रजज्ञिरे
शिवायैकां सतीं प्रादात्कश्यपाय त्रयोदश
नामानि धर्मपत्नीनां मत्तो विप्र निशामय
शान्तेः पुत्रश्च सन्तोषः पुष्टेः पुत्रो महानभूत् 1.9.
क्षमापुत्रः सहिष्णुश्च श्रद्धापुत्रश्च धार्मिकः
पूर्वपत्न्यां च मूर्त्यां च नरनारायणावृषी
नामानि रुद्रपत्नीनां सावधानं निबोध मे
कन्दली भीषणा रास्ना प्रमोचा भूषणा शुकी
सा सती स्वामिनिन्दायां तनुं तत्याज यज्ञतः
कश्यपस्य प्रियाणां च नामानि शृणु धार्मिक
सर्पमाता तथा कद्रूर्विनता पक्षिसूस्तथा
सारमेयादिजन्तूनां सरमा सूश्चतुष्पदाम्