ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः
सामान्यद्रव्यचौरश्च याति नक्रमुखं युगम्
हन्ति गाश्च गजांश्चैव तुरगांश्च नरांस्तथा
ताडितो यमदूतेन गजदन्तेन सन्ततम् गोजातिम्लेच्छजातिश्च ततः शुद्धो भवेन्नरः
जलं पिबन्तीं तृषितां गां वारयति यो नरः
नरकं गोमुखाकारं कृमितप्तोदकान्वितम्
ततो नरोऽपि गोहीनो महारोगी दरिद्रकः
गोहत्यां ब्रह्महत्यां च यः करोत्यतिदेशिकीम्
प्रतिग्राही च तीर्थेषु ग्रामयाजी च देवलः
गोहत्यां ब्रह्महत्यां च स्त्रीहत्यां च करोति यः 2.30.
कुम्भीपाके स च वसेद्यावदिन्द्राश्चतुर्दश
क्षणं पतति वह्नौ च क्षणं पतति कण्टके
क्षणं च तप्तपाषाणे तप्तलोहे क्षणं ततः
काकश्च सप्तजन्मानि सर्पस्स्यात्सप्तजन्मसु
ततो भवेत्स वृषणो गलत्कुष्ठी दरिद्रकः
सावित्र्युवाच का वा नृणामगम्या वा को वा सन्ध्याविहीनकः
अदीक्षितः पुमान्को वा को वा तीर्थे प्रतिग्रही
शूद्राणां सूपकारः कः प्रमत्तो वृषलीपतिः
यम उवाच शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यमणौ तथा
गणेशे वा तदर्च्चायामेवं सर्वत्र सुन्दरि 2.30.
स्वगुरौ स्वेष्टदेवे वा जन्मदातरि मातरि
वैष्णवेष्वन्यभक्तेषु ब्राह्मणेष्वितरेषु च
यो मूढो विष्णुनैवेद्ये चान्यनैवेद्यके तथा करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः
सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे
माययाऽनेकरूपे वाऽप्येक एव हि निर्गुणे
पितृदेवार्चनां पौर्वापरां वेदविनिर्मिताम्
ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा
शिवं शिवस्वरूपं च कृष्णप्राणाधिकं प्रियम्
प्रधानं वैष्णवानां च देवानां सव्यमीश्वरम्
ये विष्णुमायां निन्दन्ति विष्णुभक्तिप्रदां सतीम् 2.30.